________________
75
5*5*SABSCASH
गुर्वी पिडविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव । विकृतीनां सन्त्यागस्तथैकसिक्थादिपारणकम् ॥५॥ अनियतविहारकल्पः कायोत्सर्गादिकरणमनिशं च। इत्यादि बाह्यमुच्चैः कथनीयं भवति बालस्य ॥६॥ मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धम्।आद्यन्तमध्ययोगैर्हितदं खलु साधुसद्वृत्तम्॥७॥ अष्टौ साधुभिरनिशं मातर इव मातरःप्रवचनस्य। नियमेन न मोक्तव्याः परमं कल्याणमिच्छद्भिः॥८॥ एतत्सचिवस्य सदासाधोर्नियमान्न भवभयं भवति।भवति च हितमत्यन्तं फलदं विधिनागमग्रहणम् ९ गुरुपारतन्त्र्यमेव च तद्बहुमानात्सदाशयानुगतम् । परमगुरुप्राप्तेरिह बीजं तस्माच्च मोक्ष इति ॥१०॥ इत्यादि साधुवृत्तं मध्यमबुद्धेः सदा समाख्येयम् । आगमतत्त्वं तु परं बुधस्य भावप्रधानं तु ॥११॥
वचनाराधनया खल धर्मस्तद्वाधया त्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥१२॥ PI यस्मात् प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥१॥
अस्मिन् हृदयस्थेसति हृदयस्थस्तत्त्वतोमुनीन्द्र इति। हृदयस्थिते च तस्मिन्नियमात्सर्वार्थसांसद्धिः १४|| चिन्तामणिः परोऽसौ तेनैव भवति समरसापत्तिः। सैषेह योगिमाता निर्वाणफलप्रदा प्रोक्ता ॥१५॥
ANSARKARISESSSSSS
Jain Education in
For Personal & Private Lise Only
IC
ww.jainelibrary.org