________________
58
18| पर्वोपलक्षितो यद्वा पुत्रञ्जीवकमालया। नासाग्रस्थितया दृष्ट्या प्रशान्तेनान्तरात्मना ॥३८३ ॥
विधाने चेतसो वृत्तिस्तद्वर्णेषु तथेष्यते । अर्थे चालम्बने चैव त्यागश्चोपप्लवे सति ॥३८४ ॥ | मिथ्याचारपरित्याग आश्वासात्तत्र वर्तनम् । तच्छद्धिकामता चेति त्यागोऽत्यागोऽयमीदृशः॥३८५॥
यथाप्रतिज्ञमस्येह कालमानं प्रकीर्तितम्। अतो ह्यकरणेऽप्यत्र भाववृत्तिं विदुर्बुधाः ॥३८६ ॥ मुनीन्द्रैः शस्यते तेन यत्नतोऽभिग्रहः शुभः । सदातो भावतो धर्मः क्रियाकाले क्रियोद्भवः॥३८७ ॥ स्वौचित्यालोचनं सम्यक्ततो धर्मप्रवर्तनम् । आत्मसम्प्रेक्षणं चैव तदेतदपरे जगुः ॥३८८ ॥ योगेभ्यो जनवादाच लिङ्गेभ्योऽथ यथागमम् । स्वौचित्यालोचनं प्राहुर्योगमार्गकृतश्रमाः ॥ ३८९ ॥ योगाः कायादिकर्माणि जनवादस्तु तत्कथा।शकुनादीनि लिङ्गानि स्वौचित्यालोचनास्पदम् ॥ ३९० ॥ एकान्तफलदं ज्ञेयमतो धर्मप्रवर्तनम् । अत्यन्तं भावसारत्वात्तत्रैव प्रतिबन्धतः । ॥ ३९१ ॥ तद्भङ्गादिभयोपेतस्तत्सिद्धौ चोत्सुको दृढम् । यो धीमानिति सन्न्यायात्स यदौचित्यमीक्षते ॥ ३९२ ।। आत्मसम्प्रेक्षणं चैव ज्ञेयमारब्धकर्मणि । पापकर्मोदयादत्र भयं तदुपशान्तये ॥ ३९३॥
KOSKAAN**K*
Jain Education inteITH
For Personal & Private Use Only
Nw.jainelibrary.org