SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ 235 सम्पूर्णवस्तुपरिच्छेदात्मकत्वात् , प्रयोगश्च-इन्द्रियमनोनिमित्तं विज्ञानमप्रत्यक्षं, ग्राह्यग्रहीतृव्यतिरिक्त|निमित्तोत्थापितप्रत्ययात्मकत्वात्, धूमादग्निज्ञानवत्, विपक्षः केवलम् ।। न प्रत्यक्षादिविरोधिनी प्रतिज्ञा, अस्य साक्षात्सम्पूर्णवस्तुपरिच्छेदायोगात्, अनीदृशस्य च प्रत्यक्षत्वानुपपत्तेः॥ नासिद्धो हेतुः, धर्मिधर्मत्वात्, यथोदितविज्ञानस्य हि ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वं, स्वभावतस्तथाप्रतीतेः, अतत्स्वभावत्वे तदनिमित्तत्वप्रसङ्गात् ॥ नानैकान्तिकः, यथोदितविपक्षेऽभावात्, नहि केवले ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वमस्ति, तस्य तथाविधात्मार्थनिबन्धनत्वात् ॥ न विरुद्धोऽपि, विपक्ष एवाभावात् ॥ इन्द्रियोपलब्धिनिमित्तमन्तरा व्याप्त्यन्तराद्यपेक्षारूपत्वस्य प्रतीतिबाधितत्वात् विशेषविरुद्धस्य तत्वतोऽविरुद्धत्वात्, अन्यथा सर्वत्र भावादेव च हेतुव्यवहारोच्छेदप्रसङ्गात् ।। दृष्टान्तोऽपि न साध्यादिविकलः, धूमादग्नेर्ज्ञानस्याप्रत्यक्षत्वसिद्धेः, ग्राह्यग्रहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वप्रतीतेश्च ॥ न साधनाव्यावृत्त्यादि, केवलादुभयस्यापि निवृत्ते, आत्मनः साक्षादर्थपरिच्छेदात् सम्पूर्णार्थप्रतीतेश्च ॥ आह-अधिकृतप्रत्यक्षेणापि साक्षादर्थपरिच्छित्तिः, न, अक्षैर्व्यवधानात्, तदभावेन तदभावात् , ज्ञानोत्पत्तिस्तेभ्यः, तत्परिच्छित्तिस्तु साक्षादेवेति चेत्, न, तव्यतिरेकेण तदसिद्धेः, अतत्स्वभावस्योत्पत्तौ पुनस्तत्स्वभावत्वविरोधात्, न चानेन सम्पूर्णवस्त्वबगमो, नीलादेरपि तारतम्यव्यावृत्त्याद्यपरिच्छित्तेस्तथाऽननुभवात्, नरसिंहे सिंहज्ञानतुल्यत्वादिति । CCCCCCCCCCCC Jain Education For Personal & Private Use Only |Diww.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy