________________
पडइ कयावि ॥ ता एत्थं बुद्धिमया, अपमाओ होइ कायब्वो ॥५५॥ यद्यपि निर्गतभाव-स्तथाप्यसो रक्ष्यते परैः सद्भिः॥ वेणुर्विलूनमूलोऽपि, वंशगहने महीं नैति ॥५६॥ जिनशासनस्य सारो, जीवदया निग्रहः कषायाणाम् ॥ साधार्मिकवात्सल्यं, भक्तिश्च तथा जिनेन्द्राणाम् ॥ ५७॥ धन्यास्ते वन्दनीयास्ते, तैस्त्रैलोक्यं पवित्रितम् ॥ यैरेष भुवनक्लेशी, काममल्लो विनिर्जितः॥५८॥ एष पञ्च नमस्कारः, सर्वपापप्रणाशनः॥ मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥ ५९॥ चैत्यवन्दनतः सम्यक्, शुभो भावः प्रजायते ॥ तस्मात्कर्मक्षयः सर्वः, ततः कल्याणमश्नुते ॥ ६०॥ परिमितमुपभुजानो, ह्यपरिमितमनन्तकं परिहरंश्च ॥ प्रामोति च परलोके, ह्यपरिमितमनन्तकं सौख्यम् ॥ ६१॥ नार्या यथान्यसत्ताया-स्तत्र भावे सदा स्थिते ॥ तद्योगः पापबन्धाय, तथा धर्मेऽपि दृश्यताम् ॥६२॥ अनादिनिधने द्रव्ये, स्वपर्यायाः प्रतिक्षणम् ॥ उन्मजन्ति निमज्जन्ति, जलकल्लोलवजले ॥ ६३ ॥ लेहाभ्यक्तशरीर-स्य, रेणुना श्लिष्यते यथा गात्रम् ।। रागद्वेषक्लिन्नस्य, कर्मबन्धो भवत्येवम् ॥ ६४ ॥ सन्तोषामृततृप्तानां, यत्सुखं शान्तचेतसाम् ॥ कुतस्तद्धनलुब्धाना-मितश्चेतश्च धावताम् ॥६५॥क्षान्तो दान्तो मुक्तो, जितेन्द्रियः सत्यवागभयदाता ॥ प्रोक्तस्त्रिदण्डविरतो, विधिगृहीता भवति पात्रम् ॥६६॥ अन्योपकारकरणं, धर्माय महीयसे च भवतीति ॥ अधिगतपरमार्थाना-मविवादो वादिनामत्र ॥ ६७ ॥ वचनीयमेव मरणं, भवति कुलीनस्य लोकमध्येऽस्मिन् ॥ मरणन्तु कालपरिणति-रियं च जगतोऽपि सामान्या ॥ ६८ ॥ अप्पेण बहुमेसेजा, एयं
555555
Jain Education Inte
For Personal & Private Lise Only
4w.jainelibrary.org