SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२७ औचित्यासेवनं चैव, सर्वत्रैवाविशेषतः॥२८॥ वपनं धर्मबीजस्य, सत्प्रशंसादि तद्गतम् ॥ तचिन्ताद्यङ्करादि स्यात्, फलसिद्धिस्तु निर्वृतिः ॥ २९ ॥ चिन्तासच्छ्रत्यनुष्ठान-देवमानुषसम्पदः ॥ क्रमेणारिसत्काण्डनालपुष्पसमा मताः ॥ ३० ॥ प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः॥ प्रियं कृत्वा मौनं-सदसि कथनं चाप्युपकृतेः ॥ अनुत्सेको लक्ष्म्या निरभिभवसाराः परकथाः ॥ श्रुते चासन्तोषः कथमनभिजाते निवसति ॥ ३१॥ पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ॥ अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥ ३२ ॥ बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकांक्षिणाम् ॥ अनुग्रहार्थ तत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ॥ ३३ ॥ न मिथ्यात्वसमः शत्रु-न मिथ्यात्वसमं विषम् ॥ न मिथ्यात्वसमो रोगो, न मिथ्यात्वसमं तमः ॥ ३४ ॥ यन्न प्रयान्ति पुरुषाः, स्वर्ग यच प्रयान्ति विनिपातम् ॥ तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे ॥ ३५॥ तैः कर्मभिः स जीवो, विवशः संसारचक्रमुपयाति ॥ द्रव्यक्षेत्राद्धाभाव-भिन्नमावर्तते बहुशः ॥ ३६ ॥ अमित्रं कुरुते मित्रं, मित्रं द्वेष्टि हिनस्ति च ॥ कर्म चारभते दुष्टं, तमाहुर्मूढचेतसम् ॥३७॥ चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञानचक्षुषा ॥ सम्यक् सदैव पश्यन्ति, भावान् हेयेतरान्नराः॥ ३८॥ | चित्तमेव हि संसारो, रागादिक्लेशवासितम् ॥ तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते ॥ ३९॥ परिणामो |ह्यर्थान्तर-गमनं, न च सर्वथा व्यवस्थानम् ।। न च सर्वथा विनाशः, परिणामस्तद्विदामिष्टः॥४०॥ तत्पर्यायविनाशो, दुःखोत्पादस्तथा च सङ्क्तेशः । एष वधो जिनभणितो, वर्जयितव्यः प्रयत्नेन । ४१॥ भाव *%3A%25A4%25A4%AS Jain Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy