________________
219
अध्याय ॥७॥ धर्मफल प्ररूपणम्॥
विशिष्टतरं देवस्थानमिति ॥ १७ ॥ ततः सर्वमेव शुभतरं तत्रेति ॥ १८॥ परं गतिशरीरादिहीनमिति ॥ १९॥ तथा रहितमौत्सुक्यदुःखेनेति ॥ २०॥ अतिविशिष्टालादादिमदिति ॥ २१॥ ततः तच्युतावपि विशिष्टदेश इत्यादि समानं पूर्वेणेति ॥ २२ ॥ विशिष्टतरं तु सर्वमिति ॥ २३ ॥ क्लिष्टकर्मविगमादिति ॥२४॥ शुभतरोदयादिति ॥२५॥ जीववीर्योल्लासादिति ॥२६॥ परिणतिवृद्धेरिति ॥२७॥ तत्तथास्वभावत्वादिति ॥२८॥ किश्च प्रभूतोदाराण्यपि तस्य भोगसाधनानि, अयत्नोपनतत्वात्, प्रासङ्गिकत्वाद् अभिष्वङ्गाभावात् , कुत्सिताप्रवृत्तेः, शुभानुबन्धित्वादुदारसुखसाधनानि च (न्येव ) बन्धहेतुत्वाभावेनेति ॥ २९ ॥ अशुभपरिणाम एव हि प्रधानं बन्धकारणं, तदङ्गतया तु बाह्यमिति ॥ ३० ॥ तदभावे बाह्यादल्पबन्धभावादिति ॥ ३१ ॥ वचनप्रामाण्यादिति ॥ ३२ ॥ बाह्योपमर्देऽप्यसंज्ञिषु तथाश्रुतेरिति ॥ ३३ ॥ एवं परिणाम एव शुभो मोक्षकारणमपीति ॥ ३४ ॥ तदभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेरिति ॥ ३५॥ सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणादिति ॥ ३६॥ समग्रक्रियाऽभावे तदनवाप्तेरिति ॥ ३७॥ इत्यप्रमादसुखवृद्ध्या तत्काष्ठासिद्धी निर्वाणावाप्तिरितीति ॥ ३८॥ यत्किञ्चन शुभं लोके, स्थानं तत्सर्वमेव हि ॥ अनुबन्धगुणोपेतं, धर्मादामोति मानवः ॥ ४०॥ धर्मश्चिन्तामणिः श्रेष्ठो, धर्मः कल्याणमुत्तमम् । हित एकान्ततो धर्मो, धर्म एवामृतं परम् ॥ ४१॥ चतुर्दशमहारत्न-सभोगान्तृष्वनुत्तमम् । चक्रवर्तिपदं प्रोक्तं, धर्महेलाविजृम्भितम् ॥४२॥ इति धर्मफलप्ररूपणनामा सप्तमोऽध्यायः॥७॥
Jan Education i
n
For Persons & Private Lise Only
T
ww.sanelibrary.org