________________
205
द्वितीयो धर्मदेशनाध्यायः॥
ACCAMERASACX
नित्य एवाविकारतोऽसम्भवादिति ॥५५॥ तथा-अनित्ये चापराहिंसनेनेति ॥५६॥ तथा-भिन्न एव देहान्न स्पृष्टवेदनमिति ॥ ५७ ।। तथा-निरर्थकश्चानुग्रह इति ॥ ५८ ॥ अभिन्न एवामरणं वैकल्यायोगादिति ॥ ५९॥ मरणे परलोकाभाव इति ॥६०॥ तथा-देहकृतस्यात्मनाऽनुपभोग इति ॥ ६१॥ तथा-आत्मकृतस्य देहेनेति ।। ६२॥ दृष्टेष्टबाधेति॥ ६३ ॥ अतोऽन्यथैतत्सिद्धिरिति तत्त्ववाद इति ॥६४|| परिणामपरीक्षेति ॥६५॥ शुद्ध बन्धभेदकथन मिति॥६६॥ तथा-वरबोधिलाभप्ररूपणेति ॥६७॥ तथाभव्यत्वादितोऽसाविति ॥६॥ ग्रन्थिभेदे नात्यन्तसंक्लेश इति ॥ १९॥ न भूयस्तद्वन्धनमिति॥७॥तथा-असत्यपाये न दुर्गतिरिति ॥७१॥ तथा-विशुद्धेश्चारित्रमिति ॥ ७२ ।। भावनातो रागादिक्षय इति ॥७३॥ तद्भावेऽपवर्ग इति ॥७४|| स आत्यन्तिको दुःखविगम इति ॥७॥ एवं संवेगकद्धर्म, आख्येयो मुनिना परः॥ यथाबोधं हि शुश्रूषो वितेन महात्मना ॥१०॥ अबोधेऽपि फलं प्रोक्तं, श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन, नियमाच्छुद्धचेतसः ॥ ११ ॥ नोपकारो जगत्यस्मिस्तादृशो विद्यते कचित् ॥ यादृशी दुःखविच्छेदादेहिनां धर्मदेशना ॥१२॥
॥अथ तृतीयोऽध्यायः॥सद्धर्मश्रवणादेव, नरो विगतकल्मषः॥ ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥१३॥ धर्मोपादेयतां ज्ञात्वा, सञ्जातेच्छोऽत्र भावतः॥ दृढं स्वशक्तिमालोच्य, ग्रहणे सम्प्रवर्तते॥१४॥ योग्यो ह्येवंविधः प्रोक्तो, जिनः परहितोद्यतैः। फलसाधनभावेन, नातोऽन्यः परमार्थतः॥१५॥ इति सद्धर्मग्रहणाह उक्तः, साम्प्रतं तत्पदानविधिमनुवर्णयिष्याम इति॥१॥धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकरणमिति
%AASRARARSHA
Jain Education Salonal
For Personal & Private Lise Only
www.jainelibrary.org