________________
183
पंचविंशं पुण्यानुबन्धिपुण्यमुख्यफलाष्टकम् ॥
२५अतःप्रकर्षसम्प्राप्ता--द्विज्ञेयं फलमुत्तमम्। तीर्थकृत्त्वं सदौचित्य-प्रवृत्त्या मोक्षसाधकम् ।१।१९३॥ सदौचित्यप्रवृत्तिश्च, गर्भादारभ्य तस्य यत् । तत्राप्यभिग्रहो न्याय्यः,श्रूयते हि जगद्गुरोः॥२॥ पित्रुद्वेगनिरासाय, महतां स्थितिसिद्धये । इष्टकार्यसमृद्धयर्थ-मेवम्भूतो जिनागमे ॥३॥ जीवतो गृहवासेऽस्मिन् , यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि, गृहानहमपीष्टतः ॥४॥ इमौ शुश्रूषमाणस्य, गृहानावसतो गुरू । प्रवज्याप्यानुपूर्वेण, न्याय्याऽन्ते मे भविष्यति ॥५॥
सर्वपापनिवृत्तिर्यत् , सर्वथैषा सतां मता । गुरूद्वेगकृतोऽत्यन्तं, नेयं न्याय्योपपद्यते ॥६॥ है प्रारम्भमङ्गलं ह्यस्या, गुरुशुश्रूषणं परम् । एतौ धर्मप्रवृत्तानां, नृणां पूजास्पदं महत् ॥७॥ है| स कृतज्ञः पुमान् लोके, स धर्मगुरुपूजकः । स शुद्धधर्मभाक् चैव, य एतौ प्रतिपद्यते ॥८॥ PI २६ जगद्गुरोर्महादानं, सङ्ख्यावच्चेत्यसङ्गतम् । शतानि त्रीणि कोटीनां, सूत्रमित्यादि चोदतम् ॥१॥
अन्यस्त्वसङ्ख्यमन्येषां, स्वतन्त्रेषूपवर्ण्यते । तत्तदेवेह तयुक्तं, महच्छब्दोपपत्तितः ॥२॥ ततो महानुभावत्वा-तेषामेवेह युक्तिमत् । जगद्गुरुत्वमखिलं, सर्व हि महतां महत् ॥३॥२०३॥
25+ARCRAC%CASS
Jain Education
For Personal & Private Use Only
T
ww.jainelibrary.org