SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 181 औचित्येन प्रवृत्तस्य कुग्रहत्यागतो भृशम् । सर्वत्रागमनिष्ठस्य, भावशुद्धिर्यथोदिता ॥ ८ ॥ १७६ ॥ २३ यः शासनस्य मालिन्येऽनाभोगेनापि वर्त्तते । स तन्मिथ्यात्व हेतुत्वादन्येषां प्राणिनां ध्रुवम् ॥१॥ बध्नात्यपि तदेवालं, परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थविवर्धनम् ॥ २ ॥ यस्तून्नतौ यथाशक्ति, सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह, तदेवाप्नोत्यनुत्तरम् ॥३॥ प्रक्षीणतीव्रसक्लेशं प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां, तथा सिद्धिसुखावहम् ॥ ४ ॥ अतः सर्वप्रयत्नेन, मालिन्यं शासनस्य तु । प्रेक्षावता न कर्तव्यं, प्रधानं पापसाधनम् ॥५॥ अस्माच्छासनमालिन्या - जातौ जातौ विगर्हितम् । प्रधानभावादात्मानं, सदा दूरीकरोत्यलम् ॥६॥ कर्तव्या चोन्नतिः सत्यां शक्ताविह नियोगतः । अवन्ध्यं बीजमेषां यत्, तत्त्वतः सर्वसम्पदाम् ।७।१८३। १ पाठान्तरं ) तत्तथा शोभनं दृष्ट्वा, साधु शासनमित्यदः । प्रपञ्चन्ते तदैवैके, बीजमन्येऽस्य शोभनम् ॥ ४ ॥ सामान्येनापि नियमाद्वर्णवादोऽत्र शासने । कालान्तरेण सम्यक्त्व - हेतुतां प्रतिपद्यते ||५|| चौरोदाहणादेवं प्रतिपत्तव्यमित्यदः । कौशाम्ब्यां स afभूत्वा बुद्ध एकोऽपरो न तु ॥ ६॥ इति सर्वप्रयत्नेनो-पघातः शासनस्य तु । प्रेक्षावता न कर्तव्य, आत्मनो हितमिच्छता ||७|| Jain Education Monal For Personal & Private Use Only त्रयोविंशं शासन मालिन्य निषेधा ष्टकम् ॥ www.jainelibrary.org
SR No.600195
Book TitleHaribhadrasuri Granth Sangraha
Original Sutra AuthorJain Granth Prakashak Sabha
Author
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy