________________
योगदृष्टिसमुचयः ॥
॥७॥
Jain Education l
14
॥
१३४ ॥
॥
१३६ ॥
॥
१३७ ॥
यस्य येन प्रकारेण बीजाधानादिसम्भवः । सानुबन्धो भवत्येते तथा तस्य जगुस्ततः एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्रावभासते ॥ १३५ ॥ यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता यद्वा तत्तन्नयापेक्षा तत्कालादिनियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः तदभिप्रायमज्ञात्वा न ततोऽर्वादृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ॥ १३८ ॥ निशानाथप्रतिक्षेपो यथान्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ॥ १३९ ॥ न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाछेदाधिको मतः ॥ १४० ॥ कुदृष्ट्यादिवन्नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ १४१ ॥ निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्रान्वकल्पानां विवादेन न किंचन ॥ १४२ ॥ न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः । न चातो निश्चयः सम्यगन्यत्राप्याह धीधनः ॥ १४३ ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपद्यते
॥ ९४४ ॥
For Personal & Private Use Only
दीप्रादृष्टि
स्वरूपम् ॥
॥७॥
www.jainelibrary.org