________________
॥ ४ ॥ श्री
शास्त्रवार्ता
समुच्चयः ।
॥ ६३ ॥
Jain Education
122
॥ ८२ ॥
॥ ८४ ॥
॥ ८६ ॥
अबुद्धिजनकव्यावृत्त्या चेदबुद्धिप्रसाधकः । रूपक्षणो ह्यबुद्धित्वात् कथं रूपस्य साधकः ॥८१॥ ३१८ ॥ स हि व्यावृत्तिभेदेन रूपादिजनको ननु । उच्यते व्यवहारार्थमेकरूपोऽपि तत्त्वतः अगन्धजननव्यावृत्त्यायं कस्मान्न गन्धकृत् । उच्यते तदभावाच्चेद्भावोऽन्यस्याः प्रसज्यते ॥ ८३ ॥ एवं व्यावृत्तिभेदेऽपि तस्यानेकस्वभावता । बलादापद्यते सा चायुक्ताभ्युपगमक्षतेः विभिन्नकार्यजननस्वभावाश्चक्षुरादयः । यदि ज्ञानेऽपि भेदः स्यान्न चेद्भेदो न युज्यते ॥ ८५ ॥ सामग्र्यपेक्षयाप्येवं सर्वथा नोपपद्यते । यद्धेतुहेतुमद्भावस्तदेषाप्युक्तिमात्रकम् नानात्वाबाधनाच्चेह कुतः स्वकृतवेदनम् । सत्यप्यस्मिन् मिथोऽत्यन्ततद्भेदादिति चिन्त्यताम् ॥ ८७ ॥ वास्यवासकभावाच्चेन्नैतत्तस्याप्यसम्भवात् । असम्भवः कथं न्वस्य विकल्पानुपपत्तितः ॥ ८८ ॥ वासकाद्वासना भिन्ना अभिन्ना वा भवेद्यदि । भिन्ना स्वयं तया शून्यो नैवान्यं वासयत्यसौ ॥ ८९ ॥ अथाभिन्ना न सङ्क्रान्तिस्तस्या वासकरूपवत्। वास्ये सत्यां च संसिद्धिर्द्रव्यांशस्य प्रजायते ॥ ९० ॥ असत्यामपि सङ्क्रान्तौ वासयत्येव चेदसौ । अतिप्रसङ्गः स्यादेवं स च न्यायबहिष्कृतः ॥९१॥३२८॥
For Personal & Private Use Only
।। चतुर्थः स्तबकः ॥ बौद्धमत
विशेष
खण्डनम् ॥
॥ ६३ ॥
www.jainelibrary.org