SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम ॥३२॥ हे कुमार ! मया समं । चलिष्यस्याह स श्रेष्ठिन् !,वेतनं किं प्रदास्यसि ? ॥४४॥ धवलः प्राह मे सन्ति, श्लोकबद्धं दशसहस्रसद्भटाः। वर्षे ददाम्यहं तेषां, सर्वेषां द्रव्यकोटिकम् ॥४५॥ एवं सहस्रदीनारं, प्रत्येकसुभटस्य च || । वर्षेके जायते दास्ये-ऽहं ते तद्ऽद्विगुणं पुनः ॥४६॥ कुमार प्राह हे श्रेष्ठिन् !, यत्सर्वभटवेतनं । कोटिमितं | भवेत्तच, त्वया मे यदि दीयते ॥४७॥ तदा त्वया सहाऽयामि, पोतान् रक्षाम्यहं तव । नान्यथाथावदच्छेष्ठी, | हे कुमार! नरोत्तम ॥४८॥ अस्म्यहं तु वणिग्जाति-स्ततः कथं प्रदीयते ? । एतावन्मूल्यमेकस्मै, नराय वणिजा | मया ॥४९॥ कुमारः प्राह हे श्रेष्ठिन् !, किङ्करीभूय तेऽधुना। त्वया सहाहमिच्छामि, विदेशगमनाय न ॥५०॥ किन्तु देशाटनं कर्तु-मभिलाषोऽस्ति मे ततः। त्वं मत्तो भाटकं लात्वा, स्थानं पोते प्रदेहि मे ॥५१॥ तच्छु-1 त्वा हर्षितः श्रेष्ठी, प्रोवाच हे नरोत्तम !। प्रतिमासं त्वया देयं, दीनारैकशतं मम ॥५२॥ कुमार एकमासस्य, दत्वा भाटकमग्रतः । श्रेष्ठिनः पोतमध्ये सत्, स्थाने तस्थौ यथासुखम् ॥५३॥ अथ ते प्रेरिताः पञ्चशत पोताश्च नाविकैः । तेऽथ चेलुश्च वेगेना-नुकूलपवनेरिताः ॥५४॥ श्रीपालेन समं श्रेष्ठी, स्थाने स्थितः कुतूहलं । सिन्धी पश्यति मच्छादि-विविधजलचारिणाम् ॥५५॥ नरेण पञ्जरस्थेन, प्रोक्तं भो नाविका जनाः!। RO-ASCHAR ॥३२॥ Jain Educati o nal For Personal & Private Lise Only M helibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy