SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम् ॥ १८ ॥ ॥८२॥ तत्र देवकुमाराभ- कुमारेण समं तदा । भावस्तवं प्रकुर्वन्ती, दृष्टा निजसुता तया ॥ ८३ ॥ ततः स्वहृदये चैवं चिन्तयामास मेऽस्ति सा । मदनसुन्दरी पुत्री, काचित्कन्याऽथवाऽपरा ? ॥८४॥ इति स्वमानसे शङ्कां, कृत्वा सम्यग् विलोक्य तां । समुपलक्षिता पुत्री, तया मदनसुन्दरी ॥८५॥ तयाऽचिन्त्यनया पुत्र्या, तं किं कुष्टिनं वरं । मुक्त्वाऽयमपरो कोऽपि, नवीनस्तु कृतः पतिः ॥८६॥ कर्मगातर्विचित्राऽहो !! संसारे किं किमत्र न । अकार्यं क्रियते जीवैः, दुष्कर्मप्रेरितैः खलु ॥८७॥ तं कुष्टिनं ध्रुवं त्यक्त्वा, तयाऽपरो वरः कृतः । विलोक्यते परं नास्ति, सा कुशीला च मत्सुता ॥८८॥ सा तु जिनमतज्ञाऽस्ति, सुशीला ज्ञायते ततः। जातं किमत्र कुष्टीस, वरः कुत्र गतोऽस्ति च ॥ ८९ ॥ इत्यादि बहु सङ्कल्प - विकल्पं प्रगताऽरुदत् । विलक्षवदना |रूप - सुन्दरी रूपसुन्दरी ॥९०॥ तदा मदनसुन्दर्या, दृष्ट्वा शोकाकुलां प्रसूं । प्रोक्तं मातः ! कथं खेदः, स्थानेऽत्र क्रियते त्वया ॥९१॥ पित्रार्पितः स एवास्ति, मम कुष्टी वरः स च । नीरोगी सिद्धचक्रस्य, सेवाप्रभावतोऽभवत् ॥९२॥ कृत्वा भावस्तवं गत्वा, बहिः स्थाने तवाऽखिलं । स्ववृत्तान्तं वदिष्येऽथा ऽऽह कुमारप्रसूश्च ताम् ॥ ९३ ॥ हे ! सम्बन्धिनि ! ते पुत्री, सती त्वत्कुक्षिसम्भवा । न चलति स्वमर्यादा - न्मेरुवन्निश्चलाशया For Personal & Private Use Only Jain Educatio ational श्लोकबद्धं १२ सर्गः ॥१८॥ winelibrary.org 211
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy