________________
श्रीपाल चरित्रम् ॥११॥
॥ अथ द्वितीयः सर्गः ॥२॥ अथोम्बरमहाराजो, मदनसुन्दरी प्रति। तत्परीक्षार्थमित्येवं, मधुरया गिराऽवदत् ॥१॥हे प्रिये ! तब ताते-15
श्लोकवदं
२सर्गः ना-युक्तं कार्यमिदं कृतं । यत्त्वं मे कुष्टिने दत्ता,त्वं तुसुरूपशालिनी ॥२॥ काकस्य सदृशोऽहं तु, ततः सम्बन्ध र आवयोः।युक्तो नान्योऽन्यमद्यापि, नास्ति किमपि ते गतम् ॥३॥ समर्पिताऽसि कोपेन, राज्ञा त्वं मे त्वयाऽपि च।कर्मवादेन मे हस्त, स्पर्शः कृतोऽस्ति कुष्टिनः ॥४॥ किन्तु मद्देहसंसर्गात्, ते रोगो भाव्यतो मया। प्रोच्यते 12 त्वं विवाहाद्य-न्यनरेण समं कुरु । ५॥ मदनसुन्दरी श्रुत्वा, तद्रुदन्ती प्रियं प्रति। प्रोवाच हे ! प्रियाऽस्मिन्मे, | भवे भर्ता त्वमेव हि ॥६॥ त्यजन्ति निजमर्यादां, सूर्यसुमेरुसागराः। तथाऽपि त्वां स्वशीलं च, त्यजाम्यहं न कहिंचित् ॥७॥ अतः परं न वार्तेयं, युष्माभिः कर्हिचित्पुनः । कार्या सोऽपि ततोऽकार्षीत्, स्त्रीसम्बन्धस्तया समम् ॥८॥ प्रभातेऽथावदत् स्वीय-पतिं मदनसुन्दरी । हे ! नाथात्र पुरेऽस्ति श्री-ऋषभदेवमन्दिरम् ॥९॥ आवाभ्यां दर्शनायातः, शीघ्रं स्नानं विधाय च। पुष्पफलाक्षतादीनि, गृहीत्वा तत्र गम्यते ॥१०॥इत्युक्ते सर्वसामग्री, कृत्वोम्बरस्यासमं । चैत्ये गत्वा जिनं नत्वा, निषसाद प्रभोः पुरः॥११॥मदनसुन्दरी प्राह, हे खामिन् !
294BCARRCH9649ARASHTRA
॥१२॥
I
Jain Educa
library.org
For Personat & Private Use Only
t
ional