SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम् CRECORGC9494 | ११०१॥ इमां नातो गृहिष्यामि, यादृशी तादृशी सुता।भवत्कुलोद्भवा काचित्, मह्यं देया च कुष्टिने ॥१०२॥ * श्लोकबद्धं तन्निशम्य नृपोऽवादीत्, हे ऊम्बर ! करोम्यहं। किं ? भाग्येऽस्या वरोऽसि त्वं, कर्मवादे त्वमागतः ॥१०३॥ सर्गः मदनसुन्दरी राज्ञा, प्रोक्ता हे पुत्रि! चेत्तव । प्रतिज्ञाऽस्ति च सत्येयं, तर्हि वरोम्बरं वरम् ॥१०४॥ मदनसुन्दरी II श्रुत्वा, पितुर्वचः स्वचेतसि।धैर्य धृत्वा स्वहस्तेन, पस्पशोंम्बरहस्तकम् ॥१०५॥ तद्विलोक्य जनाः सर्वे, चक्रुहाहारवं पुनः। मिथोऽवदंश्च निर्भाग्ये-यं यया कोपितो नृपः॥१०६॥ सोऽथोम्बरः खरारूढः, स्वस्थानेऽगात्तया | समं । तदा मदनसुन्दर्या, अपवादं जगुर्जनाः ॥१०७॥ निन्दन्ति जननी केऽपि, केऽपि निन्दन्ति पाठकं । धर्म निन्दन्ति केचिच्च, पितरं कोऽपि निन्दति ॥१०८॥ विदधुः सुरसुन्दर्याः, प्रशंसां वर्तमानके। यादृशं दृश्यते | लोकै-स्तादृशमेव कथ्यते ॥१०९॥ श्रुत्वा राजा निजाश्लाघां, सहारिदमनेन च। महद्धर्या सुरसुन्दर्याः, पाणिग्रहमकारयत् ॥११०॥ ततश्च सुरसुन्दा , सहारिदमनोऽपि च। राज्ञः शिक्षा समादाय, चचाल स्वपुरीं प्रति ॥१११॥ क्रमाच्छंखपुरी प्राप्तो-ऽरिदमनः स्वयं समं । प्रियया च बहिस्तस्थौ, सर्वेऽन्ये स्वगृहं गताः ॥११॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम क्रियोद्धारक श्रीमन्मोहनमुनीश्वरान्तेसि श्रीमद्राजमुनिवर विनेय श्रीमल्लब्धिमुनि विरचिते श्रीपालचरित्रे श्लोकबद्धे श्रीमद्गौतमस्वामिकृतसिद्धचक्रमहात्म्यवर्णने-मदनसुन्दर्याः कर्मवादादिव्यावर्णनो नाम प्रथमः सर्गः॥ H AR FGC- Jain Educadorational For Personal & Private Use Only D inelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy