________________
अर्हन्महा पूजनविधिः
॥ ५६ ॥
Jain Education International
अथ सप्तपीठ-पूजनम् ॥
(द्वितीयदिने प्रातः पीठपूजनात् पूर्वं पृष्ठ २तः पृष्ठ ८ " इति जिनपूजनम्" तत् पर्यंतं पूजनविधिं विधाय तत्पश्चात् अग्रे सप्तपीठ-पूजनविधिः करणीयः) ततो जिनाग्रे स्वर्णरूप्यताम्रकांस्यमयानि वा सप्तपीठानि न्यसेत् । तत्रप्रथमपीठे - पञ्चपरमेष्ठिस्थापनमक्षरैस्तिल कैर्वा मालाक्रमेण कार्यम् ॥ द्वितीयपीठे - दिक्रमेण दिक्पालस्थापनं तथैव ॥ तृतीयपीठे - चतुर्दिक्षु त्र्यं त्र्यं कृत्वा द्वादशराशिस्थापनम् ॥ चतुर्थपीठे - चतुर्दिक्षु सप्तकं सप्तकं कृत्वाऽष्टाविंशतिनक्षत्रस्थापनम् ॥ पञ्चमपीठे-दिक्क्रमेण क्षेत्रपालवर्जितं ग्रहस्थापनं विधेयम् ॥ षष्ठपीठे - चतुर्दिक्षु चतुष्कं चतुष्कं कृत्वा षोडशविद्या देवी स्थापनम् ॥ सप्तमपीठे-गणपति-कार्तिकेय-क्षेत्रपाल - पुर देवता- चतुर्णिकाय देवस्थापनम् ।। ततः पूर्ववत् परमेष्ठिप्जनम् । तथाहि प्रथमं पुष्पाञ्जलिं गृहीत्वा -- अर्हन्त ईशाः सकला सिद्धा आचार्यवर्या अपि पाठकेन्द्राः । नश्वराः सर्वसमीहितानि कुर्वन्तु रत्नत्रययुक्तिभाजः ॥ १ ॥
For Personal & Private Use Only
।
द्वितीयदिने
प्रातः
करणीयः
॥ ५६ ॥
www.jainelibrary.org