________________
भई महापूजनविधिः
॥ ५० ॥
Jain Educational
स्मृतिदायी स्मृतिदायी जिनो जिनोपास्तिकायः कायः ।
नखरायुध न खरायुध वन्द्यो वन्द्यो यकृद्यकृत्कान्तः कान्तः ॥ ३ ॥
शङ्काहृत् शङ्काहृत् कुलाकुलाहारः हारः करणः करणः ।
विश्वगुरुर्विश्वगुरुः कविराट् कविराट् महामहाकामः कामः ॥ ४ ॥
कल्याणं कल्याणं प्रथयन् प्रथयन् हिते हिते प्रख्यः प्रख्यः ।
परमेष्ठी परमेष्ठी लाभो लाभो वितर वितर सत्त्वं सच्चम् ॥ ५ ॥ ( खंधाजातिः ) इति कुसुमाञ्जलिः । ततो दर्पणं गृहीत्वा --
धीराधीरावगाहः कलिलकळिलता छेदकारीदकारी, प्राणि प्राणिवियोगः सरुचिसरुचिता भासमानः समानः । कल्पाकल्पात्मदर्शः परमपरमताछेददक्षोददक्षो, देवादेवात्महृद्यः स जयति जयतिर्यत्प्रकृष्टः प्रकृष्टः ॥ १ ॥ इति दर्पणम् । पुनः शक्रस्तवः । ऊर्ध्वाधो० धूपः । पुनः कुसुमां० -- (२३) अनारतमनारतं सगुणसङ्कुलं सङ्कुलं, विशालकविशालकं स्मरगजेसमंजे समम् ।
सुधाकरं सुधाकरं निजगिराजितं राजितं, जिनेश्वरं जिनेश्वरं प्रणिपतामि तं तापितम् ॥ १ ॥ जरामरणबाधनं विलयसाधुतासाधनं, नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् ।
जरामरणबाधनं विलयसाधुतासाधनं, कुरङ्गनयनालटत् कटुकटाक्षतीव्रव्रतम् ॥ २ ॥
For Personal & Private Use Only
X-X4X
प्रथमदिने मध्याहने करणीयः
।। ५० ।।
elibrary.org