________________
महन्महाजनविधिः
॥ ४ ॥
अथ दीपभिमन्त्रणं तद्यथा-
ॐ अग्नयोऽग्निकाया जीवा एकेन्द्रिया निरवद्यात्पूजायां निर्व्यथाः सन्तु निरपायाः सन्तु सद्गतयः सन्तु न मेऽस्तु संघट्टनहिंसापापमदने स्वाहा || इति वहिदीपाद्यभिमन्त्रणम् । सर्वेषामपि मन्त्रणं वासक्षेपेन त्रिविरान् ।
ततः पुष्पगन्धादि हस्ते गृहीत्वा --
ॐ त्रसरूपोऽहं संसारिजीवः सुवासनः सुगन्धः सुमेधा एकचित्तो निरवद्यार्हदर्चने निर्व्यथो भूयासं निष्पापो भूयासं freeratari संश्रिता अन्येऽपि संसारिजीवा निरवद्यार्हदर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरुपद्रवां भूयासुः स्वाहा || अनेन मन्त्रेण स्वस्य तिलककरणम् । पुष्पादिभिः स्वशिरोऽर्चनं च ।
पुनः पुष्पाक्षतादि करे गृहीत्वा दशदिगभिमन्त्रः-
ॐ पृथिव्यप्तेजोवायुवनस्पतित्रसकाया एक द्वि-त्रि- चतुष्पश्चेन्द्रिया स्तिर्यग्मनुष्यनारक देवगतिगताश्चतुर्दशरज्ज्वात्मलोकाकाश निवासिनः इह श्रीजिनाचने कृतानुमोदनाः सन्तु, निष्पापाः सन्तु निरपायाः सन्तु सुखिनः सन्तु प्राप्तकायाः सन्तु, मुक्ताः सन्तु, बोधमाप्नुवन्तु स्वाहा || अनेन मन्त्रेण दशस्वपि दिक्षु गन्धजलाक्षतादिक्षेपः ॥
Jain Eduernational
For Personal & Private Use Only
प्रथमदिने
प्रातः करणीयः
॥ ४ ॥
Punelibrary.org