SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्री अर्हन्महा पूजनविधिः । ॥ १३९ ॥ कार्यस्य पु० तथा दास - भृत्य-सेवक - किंकर - द्विपद-चतुष्पद - वाहनानां पु० भाण्डागार - कोष्ठागाराणां पुष्टिरस्तु || " नमः समस्तजगतां पुष्टिवानहेतवे विज्ञानज्ञानसामस्त्य देश कायादिमाते || १ ॥ नाद कला सृष्टिर्विज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टि तुष्टि करोत्विह ।। २ ।। यत्र चेदानीमायतननिवासे तुष्टि पुष्टि - ऋद्धि-वृद्धि- माङ्गल्योत्सव - विद्या - लक्ष्मी - प्रमोद - वाञ्छित - सिद्धयः सन्तु, शान्तिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु । "प्रवर्द्धतां श्रीः कुशलं सदास्तु, प्रसन्नतामञ्चतु देववर्गः । आनन्दलक्ष्मी गुरुकीर्तिसौख्य-समाधियुक्तोऽस्तु समस्तसंघः ॥ १ ॥ सर्वमङ्गलः || २ || इति दण्डकं त्रिः पठित्वा पौष्टिक कलशे पूर्णे पौष्टिककारकः कुशेनाभिषिञ्चेत् । गृहे च सुहृदगृहे च तेन जलेन सदाभ्युक्षणं कुर्यात् । पीठपञ्चकविसर्जनं पूर्ववत्, यान्तु देवगणा० इत्यादि, आज्ञाहीनं० इत्यादि साधुभ्यो वस्त्रान्नपानदानं विपुलं गुरुपूजनं च सर्वोपचारैः ॥ "सर्वत्र गृहसंस्कारे, सूर्तिमृत्युविवर्जिते । दीक्षाग्रहणतश्चादौ व्रतारम्भे समस्तके ॥ १ ॥ प्रतिष्ठासु च सर्वासु, राज्यसंघपदे तथा । सर्वत्र शोभनारम्भे, सर्वेष्वपि च पर्वसु ॥ २ ॥ महोत्सवे च संपूर्ण, महाकार्ये समापिते । इत्यादिस्थानकेष्वाहुः पौष्टिकस्य विधापनम् ॥ ३ ॥ आयो व्याधयश्चैव दुरितं दुष्टशत्रवः । पापानि च क्षयं यान्ति, महत्पुण्यं विवर्धते ॥ ४ ॥ Jain Education International For Personal & Private Use Only 5 % % ।। १३९ ।। www.jainelibrary.org
SR No.600193
Book TitleArhan Mahapujan tatha Poshtik Mahapujan
Original Sutra AuthorVardhamansuri, Anantchandra
Author
PublisherShantilal Himaji Jasaji Mutha
Publication Year
Total Pages180
LanguageSanskrit
ClassificationManuscript
File Size19 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy