________________
HONESHRSHAॐ
३६ श्रीगीतयशः पूजनम्--
श्यामलकोमलाभकरुणाजितबहसौभाग्यसंहतिः, कुंकुमवर्णवर्णनीयधुतिमत्सिचयनिवारितांहसिः। कुसुमोद्भासचारुतरतरुवरतुम्बरुकेतुधारणो, रचयतु सर्वमिष्टगुणगणगीतयशाः सुदारुणः ॥ ३६ ॥
ॐ नमः श्रीगीतयशसे गंधर्वव्यन्तरेन्द्राय श्रीगीतयशाः सायुधः...। ३७ श्रीसंनिहितपूजनम्--
विशदशरदिन्दुकरकुन्दसमदेहरुक्, नीलमणिवर्णवसनप्रभाजालयुक् । विश्वरूपोल्लसद्यानकेतूच्छ्रितः, संनिहितदेवराडस्तु विकटस्थितः॥ ३७ ।।
ॐ नमः श्रीसंनिहिताय अणपन्निव्यन्तरेन्द्राय श्रीसंनिहित....। ३८ श्री सन्मानपूजनम्
स्फटिकोज्ज्वलप्रचलदंशुसंवरो, विलसत्तमालसंनिभाम्बरः ।
सन्माननायकहरिर्गरुत्मता, ध्वजसंस्थितेन कलितः श्रियेऽस्तु नः ॥ ॐ नमः श्री सन्मानाय अणपन्निव्यन्तरेन्द्राय श्री सन्मान........। ३९ श्री धातादेवेन्द्रपूजनम्
जम्बूनदाभवपुरुत्थदीधितिः, प्रस्फारितोरुफलिनीसमाम्बरः ।
SAHARSHASTRORESIRE
AS
।। १२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org