________________
॥ श्री पौष्टिक
महापूजन || विधिः
॥ ११७ ॥
Jain Educational
१२ वशिष्ठदेवेन्द्र पूजनम् -
सान्ध्यदिवाकरसमदेहः, शारदगगनसमावृतवस्त्रः । हरिणमृगारियुतोद्धतकेतु-भद्रकरः प्रभुरस्तु वशिष्ठः ॥१२॥
ॐ नमः श्री वशिष्ठाय द्वीपभवनपतीन्द्राय श्री वशिष्ठ........। १३ जलकान्त देवेन्द्रपूजनम् -
पयोदनिर्मुक्तशशांक सत्करः, प्रभाभिरामधुतिरश्वकेतनः । कलिन्दकन्याजलधौतकालिमा, सुवर्णवस्त्रो जलकान्त उत्तमः ॥१३॥ ॐ नमः श्री जलकान्ताय उदधिभवनपतीन्द्राय जलकान्त....... । १४ जलप्रभदेवेन्द्रपूजनम् -
कैलासलास्योद्यतयज्ञसूदन - प्रख्यांगकान्तिः कलिताश्वलाञ्छनः । भग्नेन्द्रनीलाभ शिवातिरोचनः, श्रेयः प्रबोधाय जलप्रभोऽस्तु नः ॥ १४॥ ॐ नमः श्री जलप्रभाय उदधिभवनपतीन्द्राय श्री जलप्रभ.......। १५ अमितगति - भवनपतीन्द्रपूजनम् - कनककलितकान्तिरम्यदेहः, कुमुदविततिवर्णवसुधारी ।
For Personal & Private Use Only
॥ ११७ ॥
www.jainelibrary.org