SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध प्रबंधः ॥२८॥ प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता। अभिजिजन्मनक्षत्रं, एकमूर्तिः कथं भवेत? ॥८॥ वसुदेवसुतो विष्णुः, माता वै देवकी मता। 'श्रवणं जन्मनक्षत्रमेकमूर्तिः कथं भवेत ? ॥९॥ पेढालस्य सुतो रुद्रो, माता वै सत्यकी स्मृता । मूलं तु जन्मनक्षत्रमेकमूर्तिः कथं भवेत् ॥१०॥ रक्तवर्णो भवेद्ब्रह्मा, श्वेतवर्णो महेश्वरः । कृष्णवर्णो भवेद्विष्णुरेकमूर्तिः कथं भवेत् ॥११॥ चतुर्मुखो भवेद्ब्रह्मा, त्रिनेत्रस्तु महेश्वरः । चतुर्भुजो भवेद्विष्णुरेकमूर्तिः कथं भवेत् ? ॥१२॥ ज्ञानं विष्णुः सदा प्रोक्तं, चारित्रं ब्रह्म उच्यते । सम्यक्त्वमीश्वरः प्रोक्तं, अर्हन्मूर्तिस्त्रयात्मिका ॥१३॥ क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः । इत्येत एव वाष्टौ वीतरागगुणाः स्मृताः ॥१४॥ क्षितिरित्युक्ते शान्तिर्जलं या च प्रसन्नता । निःसंगता भवेद्वायुः, हुताशो योग उच्यते ॥१५॥ यजमानो भवेदात्मा, तपोदानदयादिभिः । अलपकत्वादाकाशसङ्काशः सोऽभिधीयते ॥१६॥ सोममूर्तिर्भवेचंद्रो, वीतरागः समीक्ष्यते । ज्ञानप्रकाशकत्वेन, आदित्यः सोऽभिधीयते ॥१७॥ अकारेण भवेद्विष्णुः, रेफे ब्रह्मा व्यवस्थितः । हकारेण हरः प्रोक्तः, तस्यान्ते परमं पदम् ॥१८॥ पुण्यपापविनिर्मुक्तो, रागद्वेषविवर्जितः। अतोहयो नमस्कारः, कर्तव्यः शिवमिच्छता ॥१९॥ हंसवाहो भवेद्ब्रह्मा, वृषभवाहो महेश्वरः । गरुडवाहो भवेद्विष्णुरेकमूर्तिः कथं भवेत् ? ॥२०॥ पग्रहस्तो भवेद्ब्रह्मा, शूलपाणिमहेश्वरः। शंखचक्रधरो विष्णुरेकमर्तिः कथं भवेत् ? ॥२१॥ १ 'रोहिणी प्रत्यन्तरे । २ सम्यकत्वं तुं शिवं प्रोक्तम् । ३ 'चक्रपाणिर्भवेद्' प्रत्यन्तरे । ॥२८॥ en Ed t emational For Personal & Private Use Only wwmalerary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy