SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ गाढमुपजुगृहे श्रीसोमेश्वरलिङ्गे एते जिनादपरं देवतं न नमस्कुर्वन्ति इति मिथ्याग् वचसा भ्रान्तचित्तस्य श्रीहेमचन्द्रं प्रति एवंविधगीराविरासीत् यदि युज्यते तदेतैरुपहारैरेभिर्मनोहारिभिः श्रीसोमेश्वरमर्चयन्तु भवन्तस्तत्तथेति प्रतिपद्य सद्यः क्षितिपकोशादागतेन कमनीयोद्गमनीयेनालंकृतकायाः नृपतिनिर्देशात् पतीयाणाविप्रश्रीबृहस्पतिना दत्तहस्तावलंबाः प्रासाददेहलीमधिरुह्य किञ्चिद्विचिन्त्य प्रकाशं अस्मिन् प्रासादे कैलाशवासी श्रीमन्महादेवः साक्षादस्तीति रोमांचकंचुकितां तनुं विभ्राणा द्विगुणी क्रियतामुपहार इत्यादिश्य शिवपुराणोक्तदीक्षाविधिना आह्वनावगुंठनमुद्राकरणमंत्रन्यासविसर्जनोपचारादिभिः पचोपचारविधिभिः शिवमभ्यर्य तदन्ते । "यत्र तत्रसमये यथा तथा योऽसि सोऽस्यभिधाय या तया । वीतदोषकलुषः सचेद्भवानेक एव भगवन्नमोऽस्तु ते ॥१॥ प्रशान्तं दर्शनं यस्य, सर्वभूताभयप्रदम् । मांगल्यं च प्रशस्तं च, शिवस्तेन विभाव्यते ॥२॥ महत्वादीश्वरत्वाद्यो, महेश्वरतां गतः । रागद्वेषविनिर्मुक्तं, तमहं वन्दे महेश्वरम् ॥३॥ महाक्रोधो महामानो, महामाया महामदः । महालोभो हतो येन, महादेवः स उच्यते ॥४॥ महावीर्य महाधैर्य, महाशीलं महागुणः । महापूजाघहत्वाच्च, महादेवः स उच्यते ॥५॥ एकमृत्तित्रयो भागा, ब्रह्माविष्णुमहेश्वराः । तान्येव पुनरुक्तानि, ज्ञानचारित्रदर्शनैः ॥६॥ कार्य विष्णुः, क्रिया ब्रह्मा कारणं तु महेश्वरः। 'कार्यकारणसंपन्नो महादेवः स उच्यते ॥७॥ १ कार्यकारणसम्पन्ना एकमूर्तिः कथ भवेत् ? प्रत्यन्तरे । Jan Edu a temational For Personal & Private Use Only wwer brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy