SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्री मोनएकादशी पर्व व्याख्यान त्येवं प्रतिपन्नेषु तेषु यदा ते तमनुसरंतश्चतुर्थादि विदधुस्तदा सावधिकफललिप्सया तादृशमायया चाष्टमादि व्यधासीदेवं च स्त्रीनामगोत्रकर्मासौ चबंधार्हदादिवात्सन्यादिभिश्चहेतुभिस्तीर्थकर नामेति । ततस्ते जीवितमयाज्जयंताभिधाने विमानेऽनुत्तरसुरत्वेनोत्पेदिरे । ततश्च्युत्वा महावलो विदेहेषु जनपदेषु मिथिलायां राजधान्यां कुभकराजस्य प्रभावत्या देव्यास्तीर्थकरत्वेनासीत् जन्म, मल्लिरिति नाम च पितरो चक्रः। तदन्ये यथोक्तेषु साकेतादिषु संजज्ञिरे । ततो मल्ली देशोनवर्षशतजाता, अवधिना तानाभोगांचकार, तत्प्रतिबोधनार्थ च गृहोपवने पट्गर्भगृहोपेतभवनं तन्मध्यभागे च कनकमयीं शुपिरां मस्तकछिद्रां पिधानां स्वप्रतिमां कारयामास । तस्यां चानुदिवसं स्वकीयभोजन कबलं प्रक्षिायामास । इतच्च साकेते प्रतिबुद्धिराजः पद्मावत्या देव्या कारितेनागयज्ञे जलजादिभास्वरपंचवर्णकुसुमनिर्मित श्री दाम गंडकं दृष्टवा अहो अपूर्वभक्ति कमिति विस्मयायदमात्यमुवाच "दृष्टं क्वापीदृशं?" सोऽवचोन् मल्लिविदेहवरराजकन्यासक श्रीदामगंडापेक्षयेदं लक्षांशेऽपि शोभया न वर्त्तते । तदा राज्ञा प्रोचे मा पुनः कीदृशी ? मंत्री जगादान्या नास्ति तादृशीत्युपश्रुत्य संजाताऽनुगगोऽसौ मल्लिवरणार्थ दूतं विसर्ज। __तथा चंपायां चंद्रछायराजः कदाचिदर्हद्भक्ताभिधानेन श्रावकेण पोतवणिजा वास्तव्येन यात्रा प्रतिनिवृत्ते दिव्ये कुडलयुग्मे कौशलकतयोपनीते सति प्रमच्छ यदुत्त यूयं बहुशः समुद्रं लंघयथ, तत्र ॐॐ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600187
Book TitleParv Charitra Trayam
Original Sutra AuthorBhadrankarsuri
Author
PublisherBhadrankarsuri
Publication Year
Total Pages46
LanguageSanskrit
ClassificationManuscript
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy