SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ * राजपुत्रोऽन्यदारुण्यादाय सदनमियाय । * प्र.६४ त उ.८३ * एकदा परिधानवासोऽपि राजपालेन हारितं, पर्यधायि चोत्तीर्णं ध्वजाखण्डं, ततो जनेन तस्य ध्वजभुजंग *. ध्वजभुजंग * इत्यभिधा व्यधायि । सोऽपि भोजनस्याप्राप्त्या क्रमादुज्जयिन्यां ययौ । तत्रापि चिक्रीड, अहारयच्च घनं धनं, कथा ततः स द्यूतकृद्रयात्प्रणष्टो नगराहिः सरःपाल्यां जग्मिवान् । तत्र देवकुले निविष्टस्य बहुपृष्ठवाहकवृषभयु* ग्भामहो नाम सार्थवाहः समागात् । तत्र चैकस्य वृषभस्य पृष्ठाद्गोणी सरोजलान्तः पपात, दृष्टा पतन्ती सा ध्वजभुजंगेन, नान्येन, ततस्तं भारशून्यमुक्षाणं प्रेक्ष्य संभ्रांतः सार्थपः सर्वत्र गोणीं गवेषयन् देवकुलस्थं * ध्वजभुजंगमपृच्छत्-भद्र! त्वयोक्षस्कंधाच्चे-त्यतन्ती गोण्यवीक्ष्यत ।। तद् ब्रूहि सार्थसर्वस्वं । सा यतष्टंककैर्भूता * ||१|| तदवस्थोऽपि ध्वजभुजंगो निःस्पृहत्वादित्याहस्म-सार्थेशाकर्णयास्यैव । सरसः सलिलान्तरे ।। वर्तते , पतिता गोणी । शोधयित्वा गृहाण ताम् ।।१।। सार्थपोऽपि विस्मितो दध्यौ-अपि चलति मेरुचूला । सूर्यो के वोदेति पश्चिमाशायाम् ।। तदपि महान्तः पुरुषाः । परविभवाऽऽदानमतयो न ||१।। इति विमृश्य सरोनीराद्गोणी * निष्काश्य च सार्थपस्तमूचे-धीमन्नस्या गोणिकाया । दीनारार्द्धं गृहाण मे ।। ध्वजभुजंगोऽपि जगो-भद्रोपकार एवास्तु । शाश्वतः किं घनेर्धनेः? ।।१।। सार्थपोऽप्यवदत्-हे प्राज्ञ गतमेवासीद् । द्रविणं सर्वमप्यदः ।। * प्रश्नो . * तदेतदर्द्धस्वीकारा-न्मंक्ष्वेवानुगृहाण माम् ।।१।। ततस्तदर्द्धमप्यगृह्णतो ध्वजभुजंगस्य सार्थेशो रत्नमयसारिकायुक्तं * सटीका सारिफलकमुपदीचकार । सोऽपि तद्दाक्षिण्यात्तदादाय चिन्तयामास-अवश्यमेतन्मत्पार्श्वे । न स्थास्यत्येकमप्यहः।। * ४२९ K****** For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy