SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ *** गृहमासाद्य च चंद्रप्रभापुरस्तत्स्वरूपमवदत्, साप्येतन्निशम्य स्माह - नाथैवं क्रियमाणे हि । सम्यक्त्वमभिदुष्यति ॥ श्रेष्ठ्यप्यूचे-प्रिये ! भूमिप्रियाऽऽदेशा - देवैतन्नैव दुष्यति ||१|| ततः सायं पवित्रीभूय पूजोपचारमादाय सजायः श्रेष्ठी त्रिभुवनेश्वरीसुरीप्रासादमेत्य स्नपनाऽर्चनाद्यनंतरमित्यूचे-देवि ! नृदेवोऽवददिति । यन्मे गोत्राऽमरीसकाशात्त्वम् ।। पुत्रं याचस्वतमां । तन्मे देहि द्रुतं पुत्रम् ||१|| देव्यपि दध्यौ अहो कथ सम्यग्भावशाली वणिग्वरः । तथाप्यात्मप्रसिद्ध्यर्थं । कर्त्री साहाय्यमस्य हि ||१|| इति ध्यात्वा देव्यभ्यधात्-वत्स ! स्वच्छमते भावी । प्रशस्तस्तनयस्तव । श्रेष्ठ्यप्यवोचत् - देवि प्रयोजने कोऽत्र । प्रत्ययस्तन्निगद्यताम् ||१|| अहो निरपेक्षोऽयमिति तत्खेदाय देवीत्यवादीत्-भद्रैतदभिज्ञानं । गर्भे जाते तव प्रिया स्वप्ने || जिननमनाय विशन्ती । चैत्यं निपतद्विलोकयिता ||१|| श्रेष्ठ्यप्येतन्निशम्य किं धर्मप्रत्यनीकोऽयं भावि ? इति मनाग्दूनमनाः सदारः स्वागारमागात् । चंद्रप्रभापि निशीथे तमेव स्वप्नं दृष्ट्वा प्रियमूचे - स्वामिन् ! स्वप्नः स एवाद्य । वीक्षितः किंत्वदोऽधिकम् ।। यत्सपूजोपकरणा - विक्षं यावज्जिनालयम् ||१|| तावत्पतन्तं वीक्ष्यामुं । मा मदूद्धर्वं पतत्विति ।। उपर्यालोकयन्ती द्रा - ग्जिनमभ्यर्च्य निर्ययौ ॥ २॥ ततः पुनर्नवीभूतं । तं पुराप्यपताकिकम् ॥ पश्चात्पंचपताकाढ्यं । दृष्ट्वा हर्षादगाजरम् ||३|| श्रेष्ठ्यपीदं श्रुत्वा स्माह-प्रिये स्वप्नोऽयमापात-कटुकस्त्वायतौ शुभः । अतस्ते समये प्राप्ते । भावी सूनुरनूनधीः ||१|| परं पूर्वं किमप्येष । प्राप्य विघ्नं सुदारुणम् ॥ ततः सर्वर्द्धिवर्द्धिष्णु-प्रभो भाव्यर्कवत्प्रगे ॥२॥ तदाकर्ण्याजनिष्ट हृष्टा श्रेष्ठिनी, पूर्णे च समये सुतमसूत, श्रेष्ठ्यपि 1 Jain Education International For Personal & Private Use Only ******** **** प्र. ३४ उ. ३६ पुत्रजन्म प्रश्नो. सटीका ॥२१०॥ library.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy