SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ * इह हि श्रेयःश्रीनिवेशजिनेशसदुपदेशप्रासादमहास्तंभे प्रश्नोत्तररत्नमालाप्रकरणप्रारंभे कुंदावदातप्रशमादिगुणभूरिः * संबंधाभिधेय * श्रीविमलचंद्रसूरिः शिष्टसमयपालनाय प्रेक्षावत्प्रवर्तनाय विघ्नविघाताय च समुचितेष्टदेवतानमस्कारसंबंधाभिधेय- प्रयोजनम् प्रयोजनपूर्वकमाद्यामार्यामाह - प्रणिपत्य जिनवरेन्द्रं । प्रश्नोत्तररत्नपद्धतिं वक्ष्ये ।। नागनरामरवन्द्यं । देवं देवाधिपं प्रथमम् ।।१।। • व्याख्या- अहं प्रश्नोत्तररत्नपद्धतिं वक्ष्ये इति क्रियासंबंधः, तत्र हेयोपादेयपदार्थान्वयव्यतिरेकाभ्यां प्रश्नाः शिष्यकृताः * पृच्छास्तेषामुत्तराणि गुरूक्तानि कर्तव्याकर्तव्यरूपाणि, तान्येव जगति दुर्लभत्वान्महार्थत्वाच्च रत्नानि पद्मरागादीनि, * तेषां पद्धतिर्गिस्ताम्, आनंत्यात्प्रश्नानामुत्तराणां च, तथापि तेषु कतिचिदुपदेष्टुकामो मार्गमिव वक्ष्ये-भणिष्यामि, यथा मार्गे दृष्टे स्वयमेव पुमानिष्टं स्थानमाप्नोति, तथामीभिरपि वक्ष्यमाणप्रश्नोत्तररूपैरुपदेशैरित्याशयः । किं कृत्वा ? प्रणिपत्य मनोवाक्कायैर्नत्वा, कं तमित्याह-जिनवरेन्द्रं, ननु जिनवरेन्द्रशब्देन चतुर्विंशतिरपि तीर्थंकरा * लभ्यन्ते, अतस्तेषु क इत्याह-प्रथममाद्यं ऋषभदेवं, यतोऽस्यामवसर्पिण्यां सकललोकलोकोत्तरव्यवहारप्रकटीकार सूत्रधारत्वात्तस्यैव नमस्कारकरणं संगतिमंगति, तत्र जयन्ति सुदुर्निवारान्तरङ्गारीन् रागद्वेषादीनिति जिनाः र सामान्यकेवलिनः, ते च मूककेवलिनोऽपि स्युरतस्तन्निरासाय वरा उपदेशदानादिगुणैः प्रवीणाः पुंडरीकादय- प्रश्नो. के स्तेषामपीन्द्रस्तादृक्प्रातीहार्याद्यैश्वर्यानुभवात्पुरंदरस्तं, यथा स किल सकलनाकिष्वैश्वर्येण वर्यस्तथा तेषु के सटीका * तीर्थकरोऽपि । पुनः किंविशिष्टम् ? नागनरामरवन्द्यम्, नागाः पातालवासिनो नागकुमारदेवाः, नरास्तिर्यग्लोकवासि-* ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600185
Book TitlePrashnottar Ratnamala
Original Sutra AuthorVimalacharya, Devendrasuri
Author
PublisherDivya Darshan Trust
Publication Year2007
Total Pages450
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy