SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ See मनागपि । त्यजन्तो दूरतः काम - मालस्यादीनसूयकान् ।। १२५ ।। आननेन्दुमपश्यन्तो जातु निद्रामृगीदृशः । क्रमेण द्वादशाङ्गयां ते, समभूवन्नधीतिनः ।। १२६ ।। (त्रिभिर्विशेषकम् ) इत्याप्तश्रुतसंस्कारा, दधुर्गीतार्थताममी । रसेन्द्रसंस्कृता लोह धातवो हेमतामिव ।। १२७ ।। याज्ञसेन्यप्युपासाना, प्रवर्तिन्याः पदाम्बुजम् । तपो-ज्ञान- विवेकानां परां कोटिमशिश्रियत् ॥ १२८ ॥ ततः कदाऽप्यनुज्ञाप्य धर्मघोषमुनीश्वरम् । ते पृथग्विहरन्ति स्म, हरन्तो विश्वकल्मषम् ॥ १२९ ॥ तप्यन्ते स्म तपस्तेऽभि-ग्रहोदग्रं पृथक पृथक् । येन स्वं पवितुं शङ्के, साऽप्यैच्छन्मुक्तिकामिनी ।। १३० ॥ संभाव्य सुभटं शत्रु - जित्वरं निजमात्मजम् । मोहदुर्विषहोत्साहः, श्रीमान् धर्मः किमप्यभूत् ।। १३१ || धर्मतेः सदा शान्ति - हिमानीमहिमोदयः । जगत्यपि महामोह - ग्रीष्मारम्भं वृथाऽकरोत् ।। १३२ ।। धावन्तो विद्विषः स्वान्तः-पुरमादातुमन्तरा ! के नामजंस्तपः सूनोः, प्रशान्तिपरिखाम्भसि ? ।। १३३ ।। भीमस्याभूद्यथा सत्त्वं, दुर्लङ्घ्यमरिभिः पुरा । संप्रत्यपि तथैवासीदान्तरैः परिपन्थिभिः ।। १३४ ॥ यथा यथाऽरिषडुर्ग-निग्रहेऽभूदरुंतुदः । तथा तथा दधौ चित्रं, भीमः कांयमभीपणम् ॥१३५॥ भीमोऽन्तर्विद्विषः क्षान्ति - गदयाऽदलयत्तथा । यथा नामापि नाश्रौषी देष तेषां पुनः क्वचित् ॥ १३६ ॥ अर्जुनस्य मुनेर्जीया- तपो गाण्डीवताण्डवम् । येन जैनगवीवर्गः, सूत्रितो निरुपद्रवः ॥ १३७ ॥ विधाय समताराधा - वेधं प्रशमपत्रिणा । पार्थः पाणौ करोति स्म, परमानन्दसंपदम् || १३८ || ध्यानवैश्वानरः पार्थ- मुनेरजनि कोऽप्यसौ । यस्य क्रोधाग्निरेवाभूदिन्धनं प्रज्वलिष्यतः ।। १३९ ॥ नकुलस्य तपोऽम्भोधे- निर्गतं यच्छमामृतम् । प्रीयन्ते स्म सुरास्तेन, तत् किं नामात्र १' काममभीमताम् प्रतिद्वय० । २ 'ममता' प्रतिद्वय० । For Personal & Private Use Only Jain Education rational ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy