________________
249
ध्यमचीकथत् । नन्वेते सर्वजातीया, जन्तवः सन्त्युपाहताः ॥ २१७ ॥ एते हि तव वीवाहे, यादवानामनेकशः। मांस्पाकगौरवं कर्तु, भोजेनानिन्यिरे मुदा ॥ २१८ ॥ अथाऽऽह स्म वहन्नेमिः, कृपाकण्टकितं वपुः । हहा! धिगेष संसारः, सागरः सर्वपाप्मनाम् ॥ २१९ ॥ तदेते यत्र तत्रायं, नीयता सारथे ! रथः । स्वच्छन्दचारिता भूयो-ऽप्यमीभिरनुभूयताम् ॥२२०॥ ततः सपदि सूतेन, तदादेशात्तथा कृते । चिक्षेप चक्षुषी नेमि-स्तमभि प्राणिवाटकम् ॥ २२१ ॥ तत्र कांश्चिद्गले बद्धान् , पदे बद्धांश्च काश्चन । कांश्चिच्च पञ्जरे क्षिप्तान , दीनवक्त्रान् ददर्श सः ॥ २२२ ॥ नेमिमालोक्य ते विश्व-प्रियंभावुकदर्शनम् । पाहि पाहीति पूञ्चकः, सर्वेऽपि स्वस्वभाषया ।। २२३ ॥ जीवांस्तान मोचयामास, नेमिः कारुणिकाग्रणी। न्यवतेयच्च निर्वेदात्, स्यन्दनं सदनं प्रति ॥ २२४ ॥
समुद्रविजयः कृष्णः, सीरपाणिः परेऽपि च । शिवाद्याश्च स्त्रियस्त्यक्त-यानास्तत्पुरतोऽभवन् ।॥२२५॥ ततः समं शिवादेव्या, समुद्रविजयोऽवदत् । कस्मादकस्मादेवासा-द्विमुखोऽभूस्त्वमुत्सवात् ॥ २२६ ॥ नेमिर्जगाद तातामून, प्राणिनो भटवेष्टितान् । दृष्ट्वाऽद्राक्षं विपक्षौधे-रात्मानमपि वेष्टितम् ॥२२७॥ स्वमुद्वेष्टयितुं तेभ्यो, यतिष्ये तदतः परम् । विपक्षाक्रान्तमात्मानं, सुधीर्ननु सहेत का? ।।२२८॥क नु ते रिपवस्तात!, प्रलप्यालमिदं ततः। एवमाभाषितस्ताभ्यां, नेमिः पुनरभाषत ॥ २२९ ॥ अस्मि वैरिमिरष्टामि-चेष्टितः कर्मनामभिः। येषां जितान्यशौण्डीरः, शौण्डीरोऽपि न किंचन ।।२३०॥ गुप्तिपालेरिवामीभिः, पुरा नरकचारके। क्षिप्त्वाऽहं छेदमेदाद्या, लम्भितो भूयसीय॑थाः॥२३१ ॥ बन्दिकारैरिवामीभि
१ ‘कारणं' प्रतिद्वय० । २ 'बन्दकार' प्रतिद्वय० ।
४८
in Education
mattonal
For Personal & Private Use Only
www.jainelibrary.org