SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अथ नवमः सर्गः। तत्राथ पाण्डुपुत्राणां, सुकृतान्येव चिन्वताम् । उपागादन्यदा भानु-मती दुर्योधनप्रिया ॥१॥ क्षात् पञ्चालसुतया, कृतप्रत्युद्गमक्रिया । साऽतिम्लानमुखी कुन्ती, धर्मात्मजमथानमत् ॥ २॥ भीमादिभिः कृतौचित्या, द्रौपद्या दत्तमासनम् । साऽध्यास्य धारयामास, राज्ञोऽग्रे चीवराञ्चलम् ॥३॥ अधोमुखी मषीश्याम-वक्त्रा यत्नं दधत्यपि। रुद्धकण्ठी(ण्ठा) तदा वाष्पै-वक्तुं नालंबभूव सा ॥ ४ ॥ निष्पर्यायं तु निर्यद्भि-मुक्तामणिकणोपमैः। अस्तं पूरयामास, सा प्रसारितमञ्चलम् ॥५॥ वत्से ! जातं किमत्यन्त-मेतदत्याहितं तव । इति धर्मसुतेनोक्ता, मुक्तकण्ठं रुरोद सा ॥६॥ स्वयमाश्वासिता कुन्त्या, समुत्थाय सबाष्पया । रोदसीपूरमाक्रन्दं, मन्दं चक्रे क्रमेण सा ॥ ७॥ प्रमृष्टान्यपि पाश्चाल्या, वल्कलेनाधिकाधिकम् ।। तस्याः प्रसस्रुरश्रूणि, नेत्रपुष्करिणीमुखात् ।। ८॥ एष वत्से ! कथंकारं, पृथुलः प्रार्थनाश्चलः । पुरो ममेति सौत्सुक्यं, पृष्टा ज्येष्ठेन साऽब्रवीत् ॥ ९॥ देवातिदीनया केनाप्यमूत्रितपरित्रया । मयाज्यं भर्तृभिक्षाय, धारितस्त्वत्पुरोऽश्चलः॥१०॥ दुर्योधनस्य मद्वन्धोः, किं कोऽपि व्यसनोदयः ? | अनुयुक्तेति भूपेन, धैर्यमालम्ब्य साऽभ्यधात् ॥ ११॥ देव ! कुर्वन् कृतार्थानि, गोकुलानि विलोकनात् । इहाजगाम बन्धुर्वः, स्वैरं द्वैतवनावनौ ॥१२॥ ततः स दातुमावासान् , क्वचिदासन्नकानने । आदेशिनः समा १ 'कण्ठैस्तदा' प्रतिद्वय । २ अकृतरक्षणया । Jain Education interations For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy