SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ S 18 कोऽपि विप्रो धार्मिको दूरादागत्य तामयति । स्वच्छजलैः स्नपयित्वा घनचन्दनैर्विलिप्य सुगन्धैः पुष्पैः प्रपूज्य पुरो बलिं ढौकयित्वा । प्रधानागरुमुत्क्षिप्य मनोहरं स्तवं कृत्वा मृर्ना नत्वाञ्जलिं बद्ध्वा नित्यमेवं भापते- .. त्वयि तुष्टे मम स्वामिन् संपत्स्यन्तेऽखिलाः श्रियः । त्वमेव शरणं मेऽस्तु प्रसीद परमेश्वर ॥१॥ इति विज्ञप्तिं कृत्वा नित्यमेव स्वगृहे याति । एकदा धार्मिकः स्वां पूजामपनीतां वीक्ष्य पूजयित्वा पूजापहतिं ज्ञातुं रहा। स्थितः । तदैकः पुलिन्दो वामहस्ते धनुःशरं दक्षिणकरे कुसुमानि मुखं जलपूर्ण एवंविधः समागत्य शिवस्य पूजामंम्हिणोत्सार्य गंडूषा च्छंटनं कृत्वा पुष्पपूजां कृत्वाऽनमत् । शिवस्तेन सह वार्तालापं करोति । पुलिन्दो जग्मिवान् । धार्मिको हृद्ययत । कोपाच्छिवमुपालेभे-"अहो शिव यादृशः पुलिन्दस्तादृशस्त्वमेव । अशुचिमूर्तिना तेनाधमेन पूजितस्त्वं तेन सह जल्पसि । मम स्वम|मपि ना दर्शयसि" । सुरः प्रोवाच-'कोपं मा कुरु, स्वयमेव ज्ञास्यसि । दिनाष्टकानन्तरं धार्मिकः शिवमेकाक्षं ददर्श । धार्मिक शुशोच-'अहो शिवस्य द्वितीयं स्वर्णनेत्रं व गतं ? केनापि दुष्टेनापहृतं' । इति निलप्य रहः स्थितः । ततः पुलिन्द आगात् । शिवं तादृशं वीक्ष्य भिल्लो निजं चक्षुरुध्धृत्य ददौ । शिवोऽवदत्-अहो साचिक याचस्व' । भिल्लोऽवदत्-'स्वामिस्तव प्रसादा त्सर्वमेव मेऽस्ति'। पुनः शिवोऽवादात्-'भोः साधी सात्विक मया तव सत्त्वं विलोकितं' । इत्युक्त्वा स्वं नेत्रं प्रकटीकृतं । भिल्लस्य नेत्रं कापश्चाद्दत्तं । भिल्लो नत्वा गतः । ततः शिवेन धार्मिकस्योक्तं-'त्वया दृष्टं ? वयं देवा भावेन तुष्यामः, बाघभक्त्याऽलं' । धार्मिकोऽपि नत्वा जग्मिवान् । अतः कारणाहो मध्या धर्मेऽपि भावात्सिद्धिर्जायते, इति ज्ञात्वा श्रीजिनधर्म उद्यमो विधीयतां । इत्यादिदेशनां दत्वा गण 4%94%A3745 ik in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy