________________
**
***
। अथ सुमतिदृष्टान्तः । श्रीपुरपुरे श्रीसेननृपो राज्यं करोति । तस्य श्रीसखी भार्यास्ति । तस्य नृपस्य सोमाख्यः कुलक्रमायातोऽमात्योऽस्ति । तस्य ४ सुतो नास्ति । पुत्राभावादत्यन्तदुःखी क्वापि रतिं न लेभे। अन्यदा तममात्यं प्रति नृपः प्रोवाच--"तवेयमनपत्यता मां बाद बाधते।
इयत्कालमावयोः संबन्धः क्रमागतोऽभूत् । अत एव मत्पुत्रस्यामात्यः को भविष्यति ? अन्यस्मिन्नमात्ये कीदृशो विश्वासो भवेत् । त्वं तु निश्चिन्त इव दृश्यसे" | सोमः पाह-" स्वामिन् किं विधीयते ? यतः
जीवितं सन्ततिद्रव्यं दैवायत्तमिदं त्रयम् । अनया चिन्तया किं स्यात् किं परायत्तवस्तुनि ॥१॥
नृपो जजल्प-उपायो विधीयतां । साहसं कृत्वा धैर्यमवलंब्य निजां कुलदेवतामाराधय" । इति राज्ञार्पिते सपाये सोऽमात्यो | देव्या भवनं गतः। शुचिर्भूत्वा तस्याः पुरो दर्भसंस्तारके स्थित्वा इत्यवक्-" हे मातः यदा मे पुत्रस्य प्रसादं करिष्यामि तदाऽहं भोजनं करिष्यामि" इत्यभिग्रहमग्रहीत् । तृतीयदिवसे सा देवी प्रत्यक्षं जाता इन्युवाच-"भद्र कि कष्टं करोपि? तव पुत्रः मल्लक्षणधरो नास्ति । अधुना परदाररतश्चौरो द्यूतकारो भविष्यति । तस्मात् कियत्कालं प्रतीक्षस्व । तवोत्तमं सुतं दास्ये"। तदा तेनोक्तं-- | "अहं राज्ञः पृच्छामि" इत्युक्त्वा स राज्ञे प्रष्टुं गतः । राज्ञो देव्याः कथितं शशंस । राज्ञा विमृश्योक्तं---"देवी कथय, तादृशोऽप्यस्तु, परंतु पुत्रमध्ये विनयविवेको भवेतां" । इति निशम्य देवीपाचे समागतः- " भगवति तादृशोऽपि अवगुणी पुत्रोऽस्तु, त्वं देहि, परंतु पुत्र । विनयविवेकगुणों देहि" । देव्या प्रोक्तं--"एवमस्तु,तब पुत्रः परदाररतश्चौरी द्यूतकारकश्च भविष्यति । परं विनयविवेकवान भविष्यति"।
*****
*
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org