________________
पार्श्व०
७१ ॥
तानि च व्यवत्याऽग्रे दर्शयिष्यन्ते १६ । संधानं निंबुकबिल्वकादीनामनेकजीवसंसत्तिनिमित्तत्वात् संधानस्य व्यवहारवृत्त्या दिनत्रयात् परतोऽभक्ष्यत्वमाचक्षते १७ । घोलवटकान्यामघोलमिश्रवटकानि । उपलक्षणत्वादामगोरससंपृक्तद्विदलानि च । केवलि - गम्यसूक्ष्मजीवसंसक्तिसंभवात् । द्विदललक्षणं लिख्यते
मि उ पीलिज हो न हु होइ विंति तं विदलं । विदले वि हु उप्पन्ने नेहजुअं होइ नो विदलं ॥१॥ इति १८ । वृन्ताकानि निद्राब हुल्यमदनोद्दीपनादिदोषपोषकत्वात् । उक्तं च
यस्तु वृन्ताककालिंगमूलकानां च भक्षकः । अन्तकाले स मूढात्मा न स्मरिष्यति मां प्रिये ॥ १ ॥
इति १९ । अज्ञतनामानि पुष्पाणि फलानि च । अज्ञानतो निषिद्धपुष्पफलेषु प्रवृत्तौ व्रतभंगसंभवाद्विषपुष्पफलेषु तु प्रवृत्तौ जीवितस्यापि नाशना, कचूलपल्लीपतिसार्थिकवत् २० । तुच्छफलं मधुकजंबूकफलादेः । उपलक्षणत्वाच्च तुच्छपुष्पं करीराणिशिमधुकादि । तुच्छपत्रं प्रावृषि तंदुलीयकादेश्व, बहुजीवसंमिश्रत्वात् । यद्वा तुच्छफलमर्धनिष्पन्नं कोमलं च वलकमुद्गसिंगादिकं । तद्भक्षणे हि न तथाविधा तृप्तिः, विराधना च भूयसी स्यात् २१ । चलितरसं कुथितानं पर्युपितद्विदलान्नपूपिकाद्यने|कजन्तुसंसक्तगम्यत्वात् परिहार्यत्वमस्तु | दिनद्वयातीते दध्नि जीवसंसक्तिः कथमवगम्यते ! तदुच्यते--शास्त्रप्रमाणात् । तथा चोक्तम्
१ आणिशिशुः सीमोद्गत शिभुजातिः
Jain Education International
For Personal & Private Use Only:
चरित्र
॥ ७१ ॥
jainelibrary.org