________________
श्रीरूपसेनचरित्रं
॥ ७८ ॥
Jain Educati
KERERERERERERERERERERGRE
पूर्वमेव हि कुभोजनमासी-न्मक्षिकानिपतनं च तथान्यत् ॥ १७१ ॥
एवं चैकतो मम सुता मर्कटीभूता दुःखिन्यस्ति, अन्यतश्चायं मन्त्रादिविज्ञो योगी तदिच्छां करोतीति चिन्तातुरेण राज्ञा मन्त्रिणं प्रति पृष्टं भो मन्त्रिन्नथ किं कर्तव्यं ? मन्त्री प्राह हे स्वामिन्नेकवारं त्वेवमपि मानयित्वा पुत्रीं सज्जां कुरुत । पश्चाद्यथोचितं विमृश्य बुद्धिबलेन करिष्यामः । ततो राज्ञापि तत्स्वीकृतं, उक्तं च कुमार्याः सज्जीकरणानन्तरं त्वया सार्धं तस्याः पाणिग्रहणं कारयिष्यामि । ततो राजा मन्त्री योगी च त्रयोऽपि कुमार्या आवासं प्रति प्रस्थिताः, मार्गे योगिना ताभ्यां प्रोक्तं चेदिच्छा तर्हि युवां समागच्छताम् । परं तत्र मया पठ्यमानं मन्त्रं यः श्रवणगोचरीकरिष्यति, स ग्रथिलीभूय मूको भविष्यति, तत् श्रुत्वा भीतो राजा तु पश्चाद्गतः, परं मन्त्री तु तेन सहैव चलितः, अथ कुमार्यावासाग्रे समागतो मन्त्री योगिना प्रोचे, अरे मन्त्रिस्त्वं तु मूर्खोऽसि, यतस्तत्र मन्त्रादि शृण्वंश्चेत्त्वं ग्रथिलीभूय निश्चेष्टो भविष्यसि तदा तव का गतिः ? मन्त्री प्राह वज्रांगस्य मम शरीरे तु तत्र किमपि न भविष्यति, पुनर्मन्त्रिणं प्रति योगिनोक्तमरे मुग्ध मुधा मर्तुं कथं वाञ्छसि ? मणिमन्त्रौषधीनां ह्यचिन्त्यो महिमास्ति, चेन्न मन्यसे तर्येकां
For Personal & Private Use Only
REREREREREREDEREREREDERY:
श्रीरूपसेन
चरित्रं
॥ ७८ ॥ v.jainelibrary.org