SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ RERERERERERERERERERERERE समागत्य तस्यैव वटवृक्षस्यैकायां शाखायां स्थितौ । इतः स योगी तत्स्थानं दृष्ट्वा बाढं रुदितुं लग्नः योगिन्या वारितोऽपि स रुदनतो न तिष्ठति । तदा योगिन्या पृष्टं हे स्वामिंस्त्वमस्यां वेलायामेतस्मिन् रौद्रे स्थानके कस्माद्रुदनं करोषि ? तेनोक्तं हे प्रिये ! त्वमेतद् वृत्तान्तं शृणुअस्मिन्नेव वटवृक्षे वयं चत्वारो योगिनः समसुखदुःखाश्चतुशतवर्षाणि यावत्स्थिता । ध्यानतुष्टदेवतार्पितकन्थादिवस्तुचतुष्टयप्रसादान्महासुखं चान्वभवाम, परमेकदा कोऽपि धूर्तोऽत्र समागत्यास्मान् वञ्चयित्वा महाप्रभावयुतं तद्वस्तुचतुष्टयं च गृहीत्वा पलायितः, अस्मिन् स्थाने चेत्यादिस्मरणतो मम रुदनं समागतम् । अतो हे प्रिये जगति कस्यापि विश्वासकरणं न युक्तं, यतः - न विश्वसेदमित्रस्य, मित्रस्यापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् ॥ १३८ ॥ तेन धनाधिगमनादहं रोदिमि, तत् श्रुत्वा योगिन्योक्तमथारण्यरुदितेन किं स्यात् ? यतः भवितव्यं भवत्येव, कर्मणामीदृशी गतिः । विपत्तौ किं विषादेन, सम्पत्तौ हर्षणेन किम् ॥ १३९॥ किंच तद्वस्तुभ्योऽपि कस्याप्युपकार एव भविष्यति, लक्ष्म्याः फलमप्येतदेव, नो चेद्विनाशः स्यात्, उक्तं च For Personal & Private Use Only REDEREREREDERERERERERERY श्रीरूपसेन चरित्रं ।। ५९ ।। jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy