SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं 282828282828282828282828 चिन्तितं नूनमेष सर्वो दानमहिमास्ति, यत: याचके कीर्तिपोषाय, स्नेहपोषाय बन्धुषु । सुपात्रे पुण्यपोषाय, दानं क्वापि न निष्फलम् ॥३॥ अथ तया हृष्टया मालिन्योक्तं भो कुमारात:परं त्वं मे बान्धवोऽसि, अत्र च परमपुरुष एव साक्षी । तत: कुमारोऽपि सुखेनैव तद्गृहे स्थित: एकदा च तेन तद्दण्डादिशेषवस्तुत्रयाणामपि प्रभावस्तस्या अग्रे प्रकटित: । शास्त्रे निषिद्धमपि तस्या अग्रे स्वगुप्तवार्ता तेन प्रकटिता, यत: स्त्रीणां गुह्यं न वक्तव्यं, प्राणैः कण्ठगतैरपि । नीतो हि पक्षिराजेन, पद्मरागो यथा फणी ॥४॥ ततस्तौ भगिनीबान्धवौ परस्परं निबिडस्नेही जातौ । अथैकदा तौ स्वावासोपरितनभूमिस्थितौ नगररचनां पश्यतः स्म । इतो निकटे कुमारेणैक: सप्तभूमिक आवासो दृष्टः, तदा तेन मालिन्यै पृष्टं, हे भगिनि एष कस्यावासो दृश्यते ? तयोक्तं हे भ्रातरिदं कनकपुराभिधं पत्तनमस्ति, अत्र च कनकप्रभाख्यो राजा राज्यं करोति, तस्य च कनकमालाभिधाना पट्टराजी वर्तते, तत्कुक्षिसम्भवा कनकवत्यभिधाना चैका पुत्री विद्यते, सा कनकवती विद्याद्यनेकगुणालंकृता साक्षात् सरस्वतीवास्ति । किंच सा सर्वोत्तमस्त्रीलक्षणयुता चतुःषष्ठिकलानिपुणात्रावासे वसति । अहं च पुष्पाणि गृहीत्वा 282828282828282828282828 ॥ ३४ ॥ Jain Educat For Personal & Private Use Only ww .jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy