SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीरुपसेन चरित्रं श्रीरूपसेनचत्रिं 282828282828282828282824 प्रेषयिष्यामि, तव पत्न्या चोक्तमहं बहुदिनान्यत्र स्थितास्मि, तेन स्तोकं कालमथ पितृहेऽपि यास्यामीति तया कदाग्रहो मण्डितः, वार्यमाणापि सा तस्मात्कदाग्रहान्न तिष्ठति, तदा त्वया रुष्टेन रूपपरावर्तिन्या विद्यया तत्पिता वत्सरुपः कृतः, द्वादशघटीर्यावच्च कीलके बद्धः, त्वं च स्वयं क्षेत्रे गतः, ततो गृहागतस्य तव पल्या पृष्टं हे स्वामिन् मम पिता क्व गत: ? त्वयोक्तं स तु निजगृहे गतः, तत् श्रुत्वा खिन्नया तया त्वां प्रत्युक्तं हे स्वामिन् मां मम पितृर्गृहे प्रेषय । अन्यथाहं भोजनं न करिष्ये । एवं तया मुहर्मुहः कथिते सति त्वया विद्याबलेन स तत्पिता यथास्थितस्वरूपः कृतः, स्वपत्नी च तेन सह प्रेषिता । त्वया दीनादीनां दानं दत्तं, साधुप्रशंसा कृता, परोपकारसत्रागारादिपुण्यानि च कृतानि, तत: कालं कृत्वा त्वं मन्मथनृपगृहे पुत्रोऽभूः । त्वत्पन्यपि पुण्यादि विधाय कनकप्रभनृपगृहे इयं कनकवती पुत्री जाता, प्राग्भवस्नेहाच्च युवयोः परस्परं प्रीतिर्बभूव, तस्या द्वादशघटिकावधि पितुर्वियोगकरणेन तवापि द्वादशवर्षावधि पितुर्वियोगोऽभूत्, चतुर्नियमपालनात्तवापूर्ववस्तुचतुष्टयप्राप्तिश्चाभूत्, साधूनां पूपकादिदानात्तव स्त्रीधनमहत्त्वादि प्राप्तिर्जाता । इति श्रुत्वा स रूपसेनराजा गुरुपाचे श्राद्धधर्मं स्वीकृत्य तानेव चतुर्नियमान गृहीत्वा गृहे गतो धर्मपरश्च राज्यं पालयति स्म । 2URVASAUR828282828282828 ॥ ८ ॥ ॥ ८ ॥ For Personal Private Use Only Www.jpinelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy