________________
श्रीधन्य
चरित्रम्
॥ ४७५ ॥
भद्राया विषममोहविषप्रसरः समुत्तारितः, शोकं च श्लथयित्वा भद्रा धर्मोन्मुखीकृता । ततो नृपाऽभयौ सस्नुषा | भद्रा च भावतस्तौ वन्दित्वा, तयोर्गुणान् स्मरन्तः स्वस्वधाम जग्मुः ।
Jain Education Intemational
अथ तौ मुनिपुङ्गवौ मासं यावत् संलेखनामाराध्य, अन्ते शुद्धोपयोगलीनचित्तौ समाधिना कालं कृत्वा; अनुत्तरसुखसंभृते सर्वार्थसिद्धनाम्नि पञ्चानुत्तरविमानमुख्ये विमाने त्रिदशोत्तमौ जातौ । तत्र च देवानां त्रयस्त्रिंशत्सागरायुः । त्रयस्त्रिंशत्सहस्रवर्षैराहाररुचिः समुत्पद्यते तदा तत्क्षणम् अमृतोद्गारः क्षुधाशमनस्वभाव आगच्छति । त्रयस्त्रिंशत्पक्षैरेकं श्वासोच्छ्वासं गृह्णन्ति । यद्येषां मुष्टिग्राह्याः सप्त लवा लूयन्ते एतावदायुरधिकमभविष्यत् तदा मुक्तिमगमिष्यन्, अथवा षष्ठं तपोऽधिकमभविष्यत् तदापि मुक्तिं प्राप्स्यन्; यतोऽनुत्तरविमानाधिकं सुखं मुक्तिं विना न कुत्राप्यस्ति । अथ धन्य-शाली तत्रायुःसमाप्तौ सत्यां विदेहुषु सुखभृतयोः कुलयोः समुत्पद्य, भुक्तभोगिनौ भूत्वा यथावसरे सद्गुरुसंयोगे संयममादाय, दुस्तपतपस्क्रियया घनघातिकर्माणि क्षयं नीत्वा केवलमुत्पद्य, पृथिव्यामनेकान् प्रबोध्य, अन्ते योगसमाधिं कृत्वा, नाम, गोत्राद्यघातिभावोपग्राहि कर्माणि क्षपयित्वा, पञ्चह्रस्वाक्षरोच्चारणकालमात्रम् अयोगित्वमासाद्य, अस्पृशद्गत्या एकेनैव समयेन पूर्वप्रयोगादिकारणचतुष्कन्यायेन लोकान्ते मुक्तिक्षेत्रमवाप्स्यतः । साद्यनन्तभङ्गेन चिदानन्दसुखमनुभविष्यतः । - शालिभद्र अनुत्तरैर्दानादिभिश्चतुर्भिरपि प्रकारैरत्युत्कृष्टपदं प्राप्तौ । तद्यथा - प्रथमं तु अनुत्तरं दानं दत्तम् । यतो महता कष्टेन क्षैरेयी स्वयं तयोर्भोक्तुमासीत्, पर्व्वं साधुदाने कोऽपि अभ्यासोऽपि नासीत्, परं साधुदर्शनाद्; जाततीव्रश्रद्धौ स्वकीयं सर्वं दुःखं विस्मृत्य भक्तिभरभारिताङ्गौ उत्थाय 'स्वामिन् ! इतः पादौ
For Personal & Private Use Only
नवमः
पल्लवः
॥ ४७५ ॥
www.jainelibrary.org