________________
नवमः पल्लव:
शुभेऽह्नि चामन्त्रणं करिष्यति ?, केन शुभहेतुना सोत्साहा पितृगृहे गमिष्यामि ?, कदापि पितृगृहगताया मम श्रीधन्य. प्रत्युत दुखःपूरितहृदयेनाऽऽगमनं भविष्यति । स्रीणां हि पितृगृहसुखवार्ताश्रवणात् हृदयम् अमृतपूरितमिव चरित्रम् शीतलं प्रसत्तिभाजनं भवति । श्वशुरगृहोदासीनाः स्त्रियः पितृगृहे गत्वा सुखमासादयन्ति, परं निष्पितृका
निर्धातृकाश्य कस्य गृहे गच्छेयुः ? । अतो भ्रातृवियोगश्रवणाद् मम दृग्भ्यामश्रुपात: संजातः, नान्यत् किमपि दुःखमस्ति' | इति सुभद्राया वचांसि श्रुत्वा ईषद्विहस्य साहसाब्धिर्धन्यः स्माऽऽह-"प्रिये ! यत्त्वया
पितृगृहशून्यतादुःखमुक्तं तत्तु सत्यम् । स्त्रीणां हि पितृगृहसुखोदयवाः श्रुत्वा हृदयं प्रोल्लसति, स्त्रियो नित्यं ॥४५७॥
पितृगृहशुभचिन्तनं कुर्वन्ति प्रत्यहम् आशीर्ददति, एतत्तु युक्तमेव । परं त्वया यदुक्तं 'प्रत्यहमेकैकां त्यजति'; तेन कृत्वा तु मया तवाऽग्रजो महान् कातरो ज्ञातः । प्रिये ! कातरो हि धीरपुरुषकृतवार्ताश्रवणात् प्रोल्लसति, धीराचरितं कर्तुं समीहते, आदरणाय सज्जो भवति परन्तु पश्याद् अल्पसत्त्वाद् मन्दो भवति | नो चेद् श्रीमद्वीरवचनाऽमृतसेचनात् प्रोद्भूतव्रतजिघृक्षुपरिणामाङ्कुरः स कथं मन्दो भवेत् ? | धीराणां तु यत्कर्तव्यं निर्धारितं तत् कर्तव्यमेव प्राणान्तेऽपि नोज्झन्ति । प्रिये ! नृणां प्राणा हि प्रथम मदीर्घसूत्रिणः, परन्तु पश्याद् | निःसत्त्वानां प्राणा विलम्बकरणेन कार्यसिद्धिं न कुर्वन्ति; तेभ्यो हि तात्त्विकानां सात्त्विकानां प्राणां निर्विलम्बन कार्य साधयन्तो विशिष्यन्ते-त्वरितं यथा भवति तथा कुर्वन्ति, न विलम्बयन्ति" इति स्वपतेर्धन्यस्य गर्वाध्माता गिरः श्रुत्वा सर्वा अपि शालिवैराग्यविस्मिताः दयिता: स्माऽऽहः-“हे प्राणेश ! सत्त्वाधिकैः स्वपाणिभिः सागरः सुतरः, परम् 'उम्भितसद्ध्यानैः पुम्भिरपीदं जिनाज्ञानुरुपं तपः पालयितुं दुश्करम्, यतः सर्वाक्षरसन्निपातिनः १. पूरितशोभन ध्यानैः।
॥४५७॥
in Education Interiors
For Personal & Private Use Only
Ww.jainelibrary.org