SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ १ ॥ Jain Education International ॥ णमो समणस्स भगवओ महावीरस्य प्रभु श्रीमद् राजेन्द्र सूरिश्वरजी गुरुभ्यो नमः ॥ ॥ श्रीधन्यचरित्रम् ॥ 遊 'स श्रेयस्त्रि जगद्धयेयः, श्रीनाभेयस्तनोतु वः । यदुपज्ञा जयत्येषा धर्मकर्मव्यवस्थितिः॥१॥ स्वस्तिश्रीसुखदं नाथं, युगादीशं जिनेश्वरम् । नत्वा धन्यचरित्रस्य, गद्यार्थो लिख्यते मया ॥२॥ तत्र श्रीपद्यबन्धधन्यचरित्रकारको मङ्गलार्थं प्रथमं श्रीऋषभदेवस्तुतिरूपमाशीर्वादं ददाति । तद्यथा-स' श्रीनाभिराजपुत्रः वः युष्माकं श्रेयः - मङ्गलं विस्तारयतु । कथंभूतः श्रीनाभिराजपुत्रः ? त्रिजगद्धयेयः स्वर्ग - मर्त्य-पातालरूपाणां जगत्त्रयवर्तिजीवानां ध्यातुं योग्यः । येन श्रीऋषभेण कृता धर्मकर्मव्यवहारपद्धतिः - इह-परलोकार्थ साधको विधिमार्गोऽद्यापि सर्वोत्कृष्टतया प्रवर्तते । इत्येवं समुचितेष्ट देवतास्मरणाशीर्वादात्मकं मङ्गलं कृत्वा सप्रभेदं सर्वाभीष्ठार्थसिद्धिकृद्धर्ममार्ग व्यनक्तिइहाऽपारावारसंसाराटव्यां परिभ्रमणं कुर्वतां प्राणिनां चुल्लकादिदशभिर्ज्ञातैरतिदुर्लभं मानुष्यम्, तत्रापि आर्यदेश- कुला-ssयु१. श्रीमज्जिनकीर्तिसुरीश्वरप्रणीत 'दानकल्पद्रुम' स्थोऽयं मङ्गलश्लोकः । २. प्रथमश्लोकस्य व्याख्या । ३. दावकल्पद्रुमेसर्वज्ञोपक्रमो धर्मः परमं मङ्गलं भवेत् । असौ चतुर्द्धा तत्रापि पूर्वं दानं प्रशस्यते ॥२॥ For Personal & Private Use Only प्रथमः पल्लवः ॥१॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy