SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ बादशः ॥१०६॥ जतिन्यस्तास्तु वज्रस्य चक्रिरे गुणसंस्तवम् । स्वाध्यायावश्यकसमो गुरूणां हि गुणस्तषः ॥२५॥ तां तां वज्रस्य सौलाग्यकथामाकर्ण्य रुक्मिणी। वज्रमेव पतीयन्ती प्रत्यासीदिदं च सा ॥२६॥ वज्रः स्याद्यदि मे जर्ता नोदये नोगानहं तदा।अन्यथा तु कृतं जोगैः किं लोगैर्दयितं विना ॥॥ तस्या वरयितारश्च ये केचिपतस्थिरे । सा प्रत्यषेधत्तान् सर्वोन्मुखमोटनलीलया ॥२४॥ प्रव्रजिताश्च तां प्रोचुरयि मुग्धासि रुक्मिणि । वीतरागं प्रव्रजितं यज्रं तं वुवर्षसि ॥ २४ए ॥ रुक्मिण्यनिदधे वज्रो यदि प्रव्रजितस्तदा । प्रव्रजिष्याम्यहमपि या गतिस्तस्य सैव मे ॥ २५॥ इतश्च नगवान्वनः पाटलीपुत्रपत्तने । विहारेण ययौ धर्मदेशनावारिवारिदः ॥ २५१॥ श्रुत्वा च वज्रमायान्तं पाटलीपुत्रपार्थिवः । तत्कालं सपरीवारो ऽज्यगादृद्ध्या गरिष्ठया ॥२५॥ श्तश्चेतश्च वज्रर्षवृन्दीनूतान्महामुनीन् । ददर्शागबतो राजा राजमानांस्तपःश्रिया ॥ १३ ॥ दृष्टा तांस्तु निदध्यौ च सर्वेऽमी द्युतिशालिनः। सर्वेऽपि मधुराकाराः सर्वेऽपि विकसन्मुखाः॥२५॥ सर्वे प्रियंवदाः सर्वे करुणारससागराः। सर्वे ऽपि समतानाजः सर्वे ऽपि ममतोकिताः॥२५५॥ को नाम वज्रस्वामीति न जानामि करोमि किम् । स एव नगवानादौ वन्द्यो गलस्य नायकः ॥२५६॥ ॥त्रिनिर्विशेषकम् ॥ पप्रच्छ चाणं स्थित्वा नगवन्तो महर्षयः। श्राख्यान्तु वज्रः किमयं किमेष किमसाविति ॥२७॥ मुनयःप्रोचिरे राजन्वज्रस्यान्तिषदो वयम् । मा चिन्तय तमस्मासु क्वार्कः क्व ज्योतिरिङ्गणाः॥२५॥ १ पतिमिच्छन्ती। २ शिष्याः। ३ खद्योताः । ॥१०६॥ Jain Education International For Personal and Private Use Only www.jainelibrary.org
SR No.600173
Book TitleParishisht Parv
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Granthmala
Publication Year
Total Pages222
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy