________________
अष्टमा
॥
४॥
कोशायाश्च निदेशेनोपकोशा तं तथान्यधात् । यथा पपौ सुरामेष स्त्रीवशैः क्रियते न किम् ॥ ए॥ सुरापानं वररुचिः स्वैरं नट्टो ऽद्य कारितः। उपकोशेति कोशायै शशंसाथ निशात्यये ॥ ए३॥ श्रथ कोशामुखात्सर्व शुश्राव श्रीयको ऽपि तत् । मेने च पितृवैरस्य विहितं प्रतियातनम् ॥ एच ॥ शकटालमहामात्यात्ययात्प्रनृति सो ऽप्यनूत् । नट्टो वररुचिर्भूपसेवावसरतत्परः॥ एए॥ स प्रत्यहं राजकुले सेवाकाले समापतन् । राज्ञा च राजखोकैश्च सगौरवमदृश्यत ॥ ए६॥ अन्यदा नन्दराड्मन्त्रिगुणस्मरणविह्वलः। सदसि श्रीयकामात्यं जगादैवं सगजदम् ॥ ए॥ नक्तिमाशक्तिमान्नित्यं शकटालो महामतिः। श्रनवन्मे महामात्यः शक्रस्येव बृहस्पतिः॥ ए॥ एवमेव विपन्नो ऽसौ दैवादद्य करोमि किम् । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः॥ एए॥ उवाच श्रीयको ऽप्येवं किं देवेह विदध्महे । इदं वररुचिः सर्व पापं व्यधित मद्यपः॥१०॥ सत्यमेष सुरां नट्टः पिबतीति नृपोदिते । श्वो ऽमुं दर्शयितास्मीति श्रीयकः प्रत्यनापत ॥११॥ श्रीयकश्च हितीये ऽहि सर्वेषामीयुषां सदः। स्वपुंसा शिक्षितेनाग्यं पद्ममेकैकमार्पयत् ॥ १०॥ तत्कालं मदनफलरसन्नावनयाश्चितम् । पुरात्मनो वररुचेरर्पयामास पङ्कजम् ॥ १.३॥ कुतस्त्यमझुतामोदमिदमित्यनिवर्णिनः । प्रातुं राजादयो निन्युर्नासाने स्वं स्वमम्बुजम् ॥१०॥ सो ऽपि नट्टो ऽनयद्घांतु घाणाग्रे पङ्कजं निजम् । चन्महाससुरां सद्यो रात्रिपीतां ततोऽवमत्॥१०॥ धिगमुंशीधुपं ब्रह्मबन्धुं बन्धवधोचितम् । सर्वैरित्यावश्यमानो निर्ययौ सदसोऽथ सः॥१०६॥ १ मद्यपं २ अधमब्राह्मणम्
HOSHGACHORROSSESSHOSHA
॥
४॥
Jain Educationa international
For Personal and Private Use Only
braryong