________________
सप्तमः
॥ ७० ॥
Jain Educationa International
सन्धिविग्रहः सोऽथ विधानपि सुधीरपि । न तदाशयमज्ञासीदीदृशस्तु तदाशयः ॥ १२१ ॥ यथेक्षुयष्टिर्मूलेन प्रान्तेन च विवर्धते । उजाच्यामेव सन्धिन्यां तथा क्षत्रियसन्ततिः ॥ १२२ ॥ - चैकः सत्यसन्धर्यत्रोक्तं नान्यथा भवेत् । प्रपञ्चसन्धिरपरो मायया यः प्रतन्यते ॥ १२३ ॥ विश्वासेन वो नन्दे सत्यसन्धेर्न गोचरः । प्रपञ्चसन्धिस्तु कथं जावी वो मयि तदिदि ॥ १२४ ॥ निःसन्धिबन्धास्तद्यूयमुपजीव्या जविष्यथ । निकृत्तमूखप्रान्तेक्षुयष्टिवन्नन्दनूपतेः ॥ १२५ ॥ पुनश्च तत्प्रदेशस्थानीय मूर्धन्यदर्शयत् । दण्माहतां दधिस्थालीं कल्पको हस्तसन्या ॥ १२६ ॥ प्राग्वद्भावार्थमज्ञासीत्प्रधानपुरुषो न सः । कल्पकामात्यहृदयजावार्थो ऽयमभूत्पुनः ॥ १२७ ॥ त्वत्पक्षसंहतिस्थाली मद्दोर्दण्माहता यदि । तपः स्याटिकाका' विकीर्णे दधिवद्वलम् ॥ १२८ ॥ पुनः स्वनावा तन्नावः कल्पक स्त्रिः प्रदक्षिणाम् । चकार तदभिप्रायं तत्रापि न विवेद सः ॥ १२५ ॥ नावार्थत्वेष मन्नावा यथा नौरावृता तव । तथास्मत्तेजसा तेजो जवतामाव रिष्यते ॥ १३० ॥ सात्रयेsपि नावार्थमजानन्कल्पकस्य सः । ऊहापोहपरस्तस्थौ व्यात्तास्यः काकपोतवत् ॥ १३१ ॥ स्वस्थानं कपको ऽयागात्सान्धिविग्रहिकः स तु । तनावमविदन्वीक्षोपन्नः स्वशिबिरं ययौ ॥ १३२ ॥ स सन्धिविग्रहपुमान्निजैः पृष्टो विषादभाक् । श्रवोचदत्यसम्बन्धप्रलापी कल्पकधिजः ॥ १३३ ॥ पुनः पुनश्च तैः पृष्टो न स किञ्चिदवोचत । स हि जिहाय तनावं नाज्ञासिषमिति ब्रुवन् ॥ १३४ ॥ मिलितः कष्पकस्यायमपीति कृतनिश्चयाः । ते ऽथ सामन्तराजानः पलायन्त दिशो दिशम् ॥ १३५ ॥ १ जारपुरुषरूपकाकोचितम् २ विलक्षः
For Personal and Private Use Only
सर्गः
॥ ७० ॥
wjainelibrary.org