________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥८१॥
PATHO?T&O%T«O?
HOTOKONG ICIC
दृष्टिप्रमुखैः मिथ्यादृक्सम्यग्रग्भिर्जिनप्रासादप्रमुखं - जैनप्रासादशैचप्रासादप्रमुखं किंचित्कारितं न दृश्यते, अयं भावः- मन्दजैनैर्जेनप्रासादाः शैवप्रासादा वा मन्दशैवैरपि शैवप्रासादा जैनप्रासादा वा कारयितव्याः भवन्तीत्यतिप्रसङ्गः, ते च क्वापि कारिता न दृश्यन्ते श्रूयन्ते चेति प्रथमविकल्पोऽकिञ्चित्कर इतिगाथार्थः ॥ ७० ॥ अथ द्वितीय विकल्पस्वरूपमाह - बीए निमा तित्थं जिणपडिमानिस्सिअं न इअरंपि । जो जंमि जंमि मग्गे तिव्वमई तंमि सो पुजो ॥ ७१ ॥
यदि स्वखमते तीव्रमतिरेव बहुवित्तव्ययेन धर्मबुद्ध्या धर्मकार्यं करोतीति द्वितीयविकल्पस्तर्हि नियमाज्ञ्जिनप्रतिमानिश्रितं तीर्थजिनशासनं, जिनप्रतिमाभक्तिमदेव जैनतीर्थमित्यर्थः, न इतरदपि - जिनप्रतिमोत्थापनयुक्तमपि तीर्थं भवेत्, तत्र हेतुमाह - 'जो जंमि' ति यो यस्मिन् २ मार्गे तीव्रमतिः स्यात्तस्मिन् मार्गे पूज्यः, जैनप्रवचने तीव्रमतिरेव प्रासादादिकं कारयत्यतः स एव तीर्थे पूज्योमान्यः, तीर्थप्रधानो भवतीत्यर्थः, अत एव बहुवित्तव्ययेन शत्रुञ्जययात्रादिकारकः सङ्घपतिरिति बिरुदमुद्वहति श्रावकवर्गे, मुख्यत्वाभावे कथं तत्पतित्वमितिगाथार्थः ॥ ७१ ॥ अथोक्तं मुख्यत्वं गाथयैवाह
तेणं उजिताइस जत्ताकरणेण संघवइ बिरुअं । जत्ता भत्तपइण्णप्पमुहेसुवि पुण्णसड्डाणं ।। ७२ ।। येन कारणेन स तीर्थपूज्यो भवति तेनैव कारणेनोजयन्तादिषु, आदिशब्दाच्छत्रुञ्जयाष्टापदादयोऽपि, यात्राकरणेन बहुवित्त - व्ययेन संघसहितयात्राकरणेन सङ्घपतिबिरुदं लभत इति गम्यम्, अपि पुनरर्थे, यात्रा पुनर्भक्तप्रकीर्णप्रमुखेषु - भक्तप्रकीर्णकसारावली प्रकीर्णका चाराङ्गनिर्युक्ति शत्रुञ्जयमाहात्म्य प्रमुखे, अपिशब्दादध्यक्ष सिद्धापि, पुण्यश्राद्धानां प्राचीनपुण्योदयावाप्तबहुधनव्ययौदार्यादिगुणनिधीनां श्रावकाणामेव, नेतरेषामुत्सूत्रमार्गपतितानामपि, यत्तु संप्रति केचिदुत्सूत्रमार्गाश्रिता अपि शत्रुञ्जययात्रादिकरणेन
Jain Educationa International
For Personal and Private Use Only
GONGHONGKONGOONGDIGICHOIG
पूजासिद्धि:
॥८१॥
www.jainelibrary.org