________________
जानात्पूर्वोत्तरं बाधेति, तदेवं
स
श्रीप्रवचन
परीक्षा ८ विश्रामे ॥२८॥
कार्याकरणतो 'न निहेति न गारपि व्रतेश्वरयागादिविधिना गुरुतमा
पशुवधाभ्यनुज्ञानात्पूर्वोत्तरं बाधेति, तदेवं सम्यक्त्वखरूपमभिधाय तदवाप्तौ च यद्विधेयं तद्दर्शयितुमाह-'तं आइत्तु न निहे' इत्यादि, लुम्पको | तत्-तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो 'न निहे'त्ति न गोपयेत् , तथाविधसंसर्गादिनिमित्तोत्थापित| मिथ्यात्वोऽपि जीवसामर्थ्यगुणान त्यजेदपि, यथा वा शैवशाक्यादीनां गृहीत्वा व्रतानि पुनरपि व्रतेश्वरयागादिविधिना गुरुसमीपे | निक्षिप्योत्प्रव्रजनमेवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं न निक्षिपेत्-न त्यजेत् , किं कृत्वा ?-यथा तथाऽवस्थितं धर्म ज्ञात्वाश्रुतचारित्रधर्मात्मकमवगम्य, वस्तूनां वा धर्म-खभावमवबुद्ध्येति, तदवगमे तु किं चापरं कुर्यादित्याह-'दिठेही त्यादि, दृष्टैरिटानिष्टरूपैनिर्वेदं गच्छेद् , विरागं कुर्यादित्यर्थः, तथाहि-शब्दैः श्रुतै रसैरास्वादितैर्गन्धैराघ्रातः स्पशैंः स्पृष्टैः सद्भिरेवं भावयेद् , यथा शुभेतरता परिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति, किंच "णो लोगस्स" इत्यादि, लोकस्य-आणिगणस्यैषणा-अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु हेयबुद्धिस्तां न चरेत-न विदध्यात् , यस्य चैषा लोकैपणा नास्ति तस्यान्याऽप्यप्रशस्ता मतिर्नास्तीति दर्शयति-"जस्स नत्थि" इत्यादि, यस्य मुमुक्षोरिमा ज्ञातिः-लोकैषणाबुद्धिर्नास्ति-न विद्यते तस्यान्या-सावद्यारम्भप्रवृत्तिः कुतः स्याद् ?, इदमुक्तं भवति-भोगेच्छारूपां लोकैपणां परिजिहीपों व सावद्यानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवेयमनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हतव्या इति वा यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः-कुमार्गसावद्यानुष्ठानप-12 रिहारद्वारेण कुतः स्यात् ?, शिष्यमतिस्थैर्यार्थमाह-'
दिमित्यादि, यदेतन्मया परिकथ्यते तत्सर्वज्ञैः केवलज्ञानावलोकेन दृष्टं, तच्छुश्रूषुभिः श्रुतं, लघुकर्मणां भव्यानां मतं, ज्ञानावरणीयक्षयोपशमवशाद्विशेषेण ज्ञातं विज्ञातम् , अतो भवतापि सम्यक्त्वादिके मत्क- | NI૧૮ थिते यत्नवता भवितव्यमिति, ये पुनर्यथोक्तकारिणो न स्युस्ते कथंभूता भवेयुरित्याह-"समेमाणा"इत्यादि, तस्मिन्नेव-मनुष्या
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org