SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचन परीक्षा ८ विश्रामे ॥४६॥ प्रतिमातो धर्मः GHONGKONGRONGHOUGHONGKONG __ कत्थवि पुत्थे लिहिअंदीसह पुत्थाउ लब्भई धम्मो। अम्हेवि सहहामो कहंचि सचंपि यणं ॥४६॥ नेवं कत्थवि लिहिअं लिहि पडिमाउ लगभई धम्मो। जह बुड़कप्पभासे सिद्धंते भासिअं एवं ॥४७॥ युग्म॥ पुस्तकादपि-सिद्धान्तपुस्तकादपि धर्मो लभ्यते इति यदि कुत्रापि पुस्तके लिखितं दृश्यते यदितर्हिशब्दयोरध्याहारोऽधिकारवशाद्गम्यः तर्हि वयं श्रद्दधामस्तव वचनं कथंचित्सत्यमपि, सर्वथा सत्यं तु प्रवचनबाह्यानां न स्यादेवेति कथंचिदुक्तं,केनापि प्रकारेण क्वचिदंशे सत्यमित्यर्थः, नैवं कुत्रापि लिखितं-क्वापि पुस्तके पुस्तकाद्धर्मो लभ्यते इति लिखितं नास्ति, किंतु लिखितं प्रतिमातो धमों लभ्यते, जिनप्रतिमादर्शनाद्धर्मो लभ्यत इति पुस्तके लिखितमस्तीत्यर्थः, न चैतद्वाङ्मात्रेणेति सम्मतिमाह-'जह वुड्डू'त्ति यथा बृहकल्पभाष्ये सिद्धान्ते भाषितं, भाष्यादेः सिद्धान्तत्वमग्रे लुम्पकमुखेनैवाभ्युपगमयिष्यतेऽतो भाष्यस्यापि सिद्धान्त इति विशेषणं, तच्च कथं भाषितम् ?, एवम्-अनन्तरं वक्ष्यमाणमिति गाथायुग्मार्थः ॥४६-४७॥ अथ बृहत्कल्पभाष्यमेवाह तित्थयरा १ जिण २ चउदस ३ भिण्णे ४ संविग्ग ५तह असंविग्गे ६ सारूविअ ७ वय ८ दंसण ९पडिमाओ १० भावगामाओ॥४८॥ । एतट्टीका यथा-भावग्रामस्तु नोआगमतो ज्ञानादिकं-ज्ञानदर्शनचारित्रसमवायरूपं, यतो वा तेषां ज्ञानादीनामुत्पत्तिभवति ते भावग्रामतया ज्ञातव्याः, के पुनस्ते ?, उच्यते ?-'तित्थयरा' तीर्थकरा:-अर्हन्तः जिनाः-सामान्यकेवलिनः अवधिमनःपयेवजिना वा चतुर्दशपूविणो दशपूर्विणश्च प्रतीताः 'भिन्न'त्ति असंपूर्णदशपूर्वधारिणः संविना:-उद्यतविहारिणः असंविनाः-तद्विपरीताः सारूपिका नाम श्वेतवाससः क्षुरमुण्डितशिरसो भिक्षाटनोपजीविनः पश्चात्कृतविशेषाः 'वय'चि प्रतिपन्नाणुव्रताः श्रावकाः 'दसण'त्ति DHOROUGHOUGHOUGHOUGHORIGHONG ॥४६॥ Jan Education intention For Person and Private Use Only www.jainelibrary.org
SR No.600172
Book TitlePravachan Pariksha Part 02
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages356
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy