________________
श्रीप्रवचनपरीक्षा ११ विश्रामे
॥२८६॥
DIGHOSITHOUGH
कापि नोक्तं, ततः पाशस्यैव पाशकल्पं, जिनकल्पिकस्य तु वृषभयतितुल्यता परमुत्सर्गत एवेति गाथार्थः ।। अथ जिनाज्ञया निद्रा प्रमादो न भवतीति दर्शनाय दृष्टान्तदाष्टतिकरचनामाह
जह थेराण जिणाण य परिग्गहो नेव वत्थपत्ताई । तह निद्दाऽवि पमाओ नाणाए दोऽवि चरणट्ठा ||३६|| यथा स्थविराणां–स्थविरकल्पिकानां जिनानां - जिनकल्पिकानां वस्त्रपात्रादिः - स्थविरकल्पिकानां जघन्यतोऽपि चतुर्दशोपकरणानि जिनकल्पिकानां तु उत्कर्षतोऽपि द्वादशोपकरणानि परिग्रहो नैव स्यात् - न भवत्येव, तथा तेन प्रकारेण निद्रा अपि आज्ञयाजिनाज्ञया प्रमादो न भवति, तत्र हेतुमाह-यतो द्वे अपि-उपकरणनिद्रे अपि चरणार्थं - चारित्राराधनार्थं, ननु निद्रायाः प्रमादत्वं तु भण्यते एव, तत्कथं निद्रा प्रभादो न भवतीति चेत् सत्यं, स्वरूपेण प्रमादत्वेऽपि स्थानकविशेषमासाद्य तथा व्यपदेशासंभवात्, अन्यथा शब्दादयो विषयाः क्रोधादयश्च कषायाः प्रमादत्वेन भणिताः तथा च तद्वतां प्रमादित्वभणने सप्तमादिदशमपर्यन्तगुण| स्थानकवर्त्तिनां साधूनामप्रमतताव्यपदेशो व्यर्थ एवाऽऽपद्येत. दशमगुणस्थानकं यावत् कषायोदयात्, शब्दादीनां च विषयाणां कामभोगरूपतया प्रवचने प्रतीतत्वात्, प्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानपर्यन्तं यथासंभवं कामित्वभोगित्वव्यपदेशापच्या महदसामंजस्य मापद्येत, केवलिनामपि रसादीनां भोगानामुदयात्, ननु तेषां रागद्वेषाभावात् सत्यपि रसादिभोगित्वं न भव्यते इति चेत् चिरं जीव, एवमप्रमत्तादिसाधूनामपि न भोगित्वं न वा कामित्वं कुतो निद्राप्रमादवत्त्वमपि, अत एव आगमे 'जे आसवा ते परिसवे' त्यादि भणितं, तथा क्रोधादयोऽपि स्थानकविषयाश्रिता निर्जराहेतवोऽपि भणिताः, यदागमः- “अरिहंतेसु अ रागो रागो साहूसु बंभचारीसु । एस पसत्थो रागो अज्ज सरागाण साहूण ॥१॥" मित्यादि, एवं यथा विषयकपायाः सन्तोऽपि साधूनां न विव
Jain Educationa International
For Personal and Private Use Only
GOING DODGHOONGHOGY I
निद्रायाः
प्रमादा
प्रमादते
॥२८६॥
ww.jainelibrary.org