________________
श्रीप्रवचनपरीक्षा ११ विश्रामे ॥२७२ ॥
SONGONGHONGKONGHONGKONG
शमो वीर्यान्तरायक्षयोपशमो वेत्यादि, एवं दिशोऽपि ज्ञानादिकारणं, यदागमः - “दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाणं णिग्गंथीणं | वा पब्वावित्तए - पाईणं चेव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उबट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायं उद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोतित्तए पडिक्कमित्तए निंदित्तए गरिहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अन्भुट्ठित्तर आहारिहं पायच्छित्तं तवोकम्मं पडिवजित्तए "त्ति श्रीस्थानांगे, एतट्टीका यथा 'दो दिसाउ'त्ति इत्यादि, द्वे दिशौ - काष्ठे अभिगृा - अंगीकृत्य, तदभिमुखीभूयेत्यर्थः, कल्पते- युज्यते निर्गता ग्रंथात् धनादेरिति निर्ग्रथा:- साधवस्तेषां निर्ग्रन्ध्यःसाध्व्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन प्राचीनां प्राचीं पूर्वामित्यर्थः उदीचीनां - उदाचीमुत्तरामित्यर्थः, उक्तं च- "पुव्वामुहो उ उत्तरमुहो य दिजाऽहवा पडिच्छिज्जा । जाए जिणादयो वा हवेज जिणचेइआई व || १||त्ति, 'एव' मिति यथा प्रव्राजनसूत्रं दिग्द्वयालिलापेन अधीतं एवं मुंडनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुंडयितुं शिरोलोचनतः १ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युप्रेक्षणादि शिक्षयितुमिति २ उत्थापयितुं - महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमंडल्यां निवेशयितुं ४ संवासयितुं संस्तारकमंडल्यां निवेशयितुं ५ सुष्ठु आ-मर्यादयाऽधीयते इति स्वाध्यायः - अंगादिः तं उद्देष्टुं - योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६ समुद्देष्टुं - योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति७ अनुज्ञातुं - तथैव सम्यग् एतद् धारय अन्येषां च प्रवेदय इत्येवं अमिषातुमिति ८ आलोचयितुं गुरवेऽपराधान् निवेदयितुमिति ९ प्रतिक्रमितुं - प्रतिक्रमणं कर्तुमिति १० निंदितुं अतिचारान् स्वसमक्षं जुगुप्सितुं, आह च "सचरित्तपच्छयावो निंद"ति १९ गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च- 'गरहावि तहाजातीयमेव नवरं परप्पयासण' ति १२ 'बिउट्टित्तए' ति व्यतिवर्त्ततुं वित्रोटयितुं
Jain Educationa International
For Personal and Private Use Only
विविधवादविचारः
॥ २७२॥
www.jainelibrary.org.