________________
श्रीप्रवचनपरीक्षा ८ विश्रामे
॥२०२॥
NON
OKH
बहूणं देवीण य अच्चणिजाओ इत्यादिप्रवचनवचनात् मिध्यादृशोऽपि जिनप्रतिमां पूजयन्ति, अन्यथा बहुशब्दस्य वैयर्थ्यापत्तेरितिचेन्मैत्रं, मिथ्यादृक्परिग्रहार्थं बहुशब्दस्यानुपादानात्, किंत्वेकैकस्मिन् विमाने संख्यातयोजनात्मके संख्याता असंख्यातयोजनात्मके चासंख्याताः सम्यग्दृशो देवाः सन्ति ते च जिनप्रतिमापूजादिपरायणा एवेति बहुशब्दप्रयोगस्य साफल्यम्, अन्यथा “सव्वेसिं देवाणं सव्वासिं देवीणं अच्चणिजे "त्यादिपाठरचनाऽभविष्यत् सा च नास्तीति बहुशब्देनैव प्रत्युत मिथ्यादृष्टयः परित्यक्ताः, ननु विमानाधिपति - त्वेन यदा मिथ्यादृग् देव उत्पद्यते तदा तद्विमानगता जिनप्रतिमा मिथ्यादृगपि देवस्थित्या पूजयत्येवेति चेत्, मैत्रं, मिथ्यादृशां | विमानाधिपतित्वेनोत्पादासंभवात्, विमानाधिपतिर्मिध्यादृगपि स्यादित्यादिवचनस्य क्वाप्यागमेऽनुपलम्भात्, ननु शक्रसामानिकानामुपपातो निजनिजविमानेषु भणितः, यदागमः - "एवं खलु देवाणुप्पिआणं अंतेवासी तीसए णामं अणगारे पगड़भद्दए जावविणीए छछद्वेणं अणिकखित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाई अह संबच्छराई सामण्णपरिआगं पाउणित्ता मासिआए संलेहणाए अप्पाणं झोसेत्ता सहि भत्ताई अणसणाए छेदेत्ता आलोइअपडिकंते कालमासे कालं किच्चा सोहम्मे कप्पे सरांसि विमाणंसि उववायसभाए देवसयणिअंसि दूसंतरिआए अंगुलस्स असंखेजइभागमित्ताए ओगाहणाए सकस्स देविंदस्स देवरण्णो सामाणिअदेवत्ताए उबवण्णे" इत्यादि यावत् "गोअमा ! महिडिए जाव महाणुभावे, से णं तत्थ सक्कस्स विमाणस्स चउन्हं सामाणिअसाह स्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिमाणं सत्तण्हं अणिआणं सत्तण्हं अणि श्राहिवईणं सोलसहं आयरकुखदेवसाहस्त्रीणं अण्ोसिं च बहूणं देवाण य देवीण य जाव विहरति "त्ति यावत् “सकस्स देविंदस्स देवरण्णो अवसेसा सामाणि देवाकेमहिड्डिआ तहेव सन्धं जाव एसणं " ति ( १२९) श्रीभग० श० ३३० १, एवं निज २ विमानेषूत्पत्तिभणनेन सामानिका विमाना
Jain Educationa International
For Personal and Private Use Only
HONGYORDION ON CONSIO
विमानपतेः सम्यग्दृष्टि
त्वं
॥ २०२॥
www.jainelibrary.org