________________
श्रीप्रवचनपरीक्षा ८ विश्रामे ॥१२८॥
NIGIONSHOOTO%
गम्यं तस्य तीर्थस्य प्रतिकूला या प्रवृत्तिः सा महापापमत एव तालपुरविषकल्पमभिनिवेशमिथ्यात्वं कुपाक्षिकस्येत्याग मे प्रतीतमिति सर्व्वथा जिनाज्ञाबाह्यः कुतः श्रावकवत् स्याद् ?, अत एव साधु श्रावकसंविग्रपाक्षिकाणां मार्गास्त्रयोऽपि मोक्षमार्गत्वेन भणिताः, यदागम:- "सावञ्जजोगपरिवञ्जणाइ सव्युत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खवहो ॥ १ ॥ ( ५१९ उप० ) इत्येतेभ्यस्त्रिभ्यः शेषाः संसारमार्गा एव, यदागमः - "सेसा मिच्छद्दिट्टी गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिनि उ मुकखपहा संसारपहा तहा तिन्नि || १ || "त्ति (५१० उप० ) अत्र कुपाक्षिकाणां मध्ये दिगम्बरः कुलिङ्गे लुम्पकस्त्वर्द्धलिङ्गे शेषास्तु प्रायो द्रव्यलिङ्ग एव बोध्याः, किंच - श्रावस्तावत् तीर्थे साध्वादीनां हितेच्छुर्यथाशक्ति तद्भक्त्युद्यतः प्रतिसमयमनन्ताः पापप्रकृतीः परिशाटयति पुण्यप्रकृतीश्च बध्नाति, कुपाक्षिकास्तूत्सूत्र भाषणेन प्रतिसमयं तीर्थोच्छेदमिच्छन्तो दुर्लभबोधिभाजः प्रतिसमयमेवानन्तोत्सर्पिण्यवसर्पिणीकालपरिभ्रमणबीजभूतं कर्मार्जन्ति, तत्त्वेवं - पूर्वकोद्यायुषोऽपि समयास्तावदसंख्येया एव, 'उस्सुत्तभासगाणं बोहिनासो अनंत संसारो' ति वचनात् नियमादनन्तकाल एव संसारे परिभ्रमणं, तावांश्च कालः प्रतिसमयं विभज्यमानोऽनन्तानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो भवति, कदाचिदनन्ता अनन्तगुणिता अपि संभवन्ति, यतः आशातनाब हुलस्यान्तरकालोऽपार्द्धपुद्गलपरावर्त्तोऽपि भणितः, यदागमः - "कालमणतं च सुए अद्धापरिअडओ अ देसूणो । आसायणबहुलाणं उक्कोसं अंतरं होई ||१|| "त्ति, श्रीआ० नि० (८५३) आशातनाबहुलवोत्सूत्रभाष्येव, अपार्द्धपुद्गलपरावर्त्तकालस्त्वनन्ता अप्युत्सर्पिण्य वसर्पिण्योऽनन्तानन्तगुणिता एव स्युः, ताश्च विभज्यमाना प्रतिसमयमनन्तानन्तगुणिता एवायान्तीति गाथार्थः || १२४ || अथ साधु श्रावककुपाक्षिकाणां सम्यक्रूस्वरूपपरिज्ञानाय गाथापश्चकेन दृष्टान्तं दर्शयितुं प्रथमगाथामाह
Jain Education International
For Personal and Private Use Only
SHOCK
TOORY.
कुपाक्षिकोऽनन्तसंसारः
॥१२८|L
www.jainelibrary.org.